________________ 226 तत्वाधिगमनम् [ अध्यायः 9 पइविधश्चानवस्थितः कल्पः / यथोक्तम्--- अनवस्थितम्य " आचेलक्यौदेशिक-नृपपिण्डत्याग-मासकल्पाश्च / पाविध्यम् वर्षाविधिः प्रतिक्रमणविधानं वाऽनवस्थिताः कल्याः // 1 // " आधचरमतीर्थकरतीर्थवर्तिनां तु दशविक्षो व्यवस्थितः कल्पः / अस्य तु पुनर्भगवतस्तीर्थ श्रीवर्धमानचन्द्रस्य / स्थित एवेष्टः कल्पः स्थानेषु दशस्वपि यथावत् // 1 // किं पुनः कारणमेतदेवं तीर्थकृतां विषममुपदेशनम् ? "आर्जव-जडा अनार्जव जडा वृषभ-धीरतीर्थकालभवाः। __मनुजा यस्मात् तस्मात् , कल्पः स्थित एव स प्रोक्तः // 1 // " सत्यमुक्तमाचेलक्यम् / तत् तु यथोक्तं तथा कर्तव्यम् / तीर्थकरकल्पस्ताचदन्य एव, मति-श्रुता-ऽवधिज्ञानिनः प्रतिपन्नचारित्रास्तु चतुोनिन इति युक्तमेव तेषां पाणिपात्रभोजित्वमेकदेवष्यपरिग्रहाश्च / साधवस्तु तदुपदिष्टाचारानुष्ठायिनो जीर्णखण्डितासर्वतनुप्रावरणाः श्रुतोपदेशेन विद्यमानेवंविधवाससोऽप्यचेलका एव / यथाऽऽपगोत्तरणे शाटकपरिवेप्रितशिराः पुरुषो नग्न उच्यते सवस्त्रकोऽपि. तथाऽत्र गद्यप्रदेशस्थगनाय गृहीतचोलपटकोऽपि नग्न एवेति / योषिच काचित् परिपूर्णशाटिकापिधाना तन्तुवायमाह-ननाऽहं, देहि मे शाटिकामिति / एवं साधयोऽप्यमहाधनमूल्यानि खण्डितानि जीर्णानि च विभ्रतः श्रुतो. पदेशाद् धर्मबुद्धया नाग्न्यभाज एवेति / चारित्रसूत्रे शुद्धपारिहारिकान् वक्ष्यामः // ___यथालन्दिकास्तु भण्यन्ते / लन्दमिति कालस्याख्या / तच्च पञ्चरात्रं, तेषां हि पञ्चको गच्छः, सामाचारी तु तेषां जिनकल्पिकैस्तुल्या, सूत्रप्रमाणभिक्षाचर्याकल्पान् विहाय, तत्रापरिसमाप्ताल्पमूत्रार्थास्तु गच्छप्रतिबद्धाः / परिसमाप्तास्त्विप्रतिवद्धाः। तत्र केचित् जिनकल्पिकाः केचित् स्थविरकल्पिका यथालन्दिनः / तत्र जिनकल्पिकाः निष्प्रतिकर्मशरीराः __ समुत्पन्नरोगाश्चिकित्सायां न प्रवर्तन्ते, नेत्रमलाद्यपि नापनयन्ति' स्थविरजिनकल्पः कल्पिकास्तूत्पन्नरोगं गच्छे प्रक्षिपन्ति / गच्छोऽपि प्रासुकैषणीयेन परिकर्म करोति भैपजादिना / स्थविरकल्पिकास्त्वेकैक प्रतिग्रहधारिणः सप्रावरणाः / जिनकल्पिकानां तु वस्त्रपात्राणि भाज्यानि / एकत्र पञ्चपञ्चरात्रचारिण एते। गणप्रमाणं जघन्यतस्त्रयो गणाः, शतश उत्कृष्टाः / भिक्षाचर्या तु तेषां पश्च पश्चैव, एकैकवीथो चरन्तः पञ्चभिः पटकासकल्पं परिसमापयन्ति / स्थितास्थितकल्पयोश्च द्वयोरपि ते भवन्ति / एवमेते जिनकल्पिकादयो गच्छनिर्गतास्तत्र यद्येवंविधं नान्यमिष्यते तदों नागमोपरोधः। अथ परिधानकपरित्यागमात्रं ततस्तदप्रमाणकं न मनांसि प्रीणयति जेनेन्द्रशासनानुसारिणामिति / स्थविरकलिकास्तु चतुर्दशविधोपधयः उत्सर्गापवादव्यवहारिणः औपग्रहिकोपधिधारिणश्च / प्रव्रज्यादिद्वार 1 'महाधमूल्यानि' इति ङ-पाठः। 2 'काद् वक्ष्यामः' इति ङ-पाठः। 3 'एकत्र पश्चरात्र' इति ङ-पाठः / 4 'कल्पिकयो' इति ङ-पाठः। 5 'ततो' इति ङ-पाठः। 6 'औषधप्राहिको' इति च-पाठः। 7 'धारणाश्च' इति डो-पाठः।