________________ 225 सूत्रं 9) स्वोपज्ञभाष्य-टीकालङ्कृतम् उष्णमापतितं सम्यक सहेत / न चातपत्राद्युप्णवारणायाददीतेति / दंशमशकादिभिः दश्यमानोऽपि न ततः स्थानादपगच्छेत् , न च तदपनयनाथे धूमादिना यतेत, न च व्यजनादिना निवारयेदित्येवं दंशमशकपरीपहजयः कृतः स्यात् , नान्यथेति / नाग्न्यपरीपहस्तु न निरुपकरणतैव दिगम्बरभौतादिवत् / किं तर्हि ? प्रवचनोक्तविधानेन नाग्न्यम् / प्रवचने तु द्विप्रकारः कल्प:-जिनकल्पः स्थविरकल्पश्च / तत्र स्थविरकल्पे परिनिष्पन्नः, क्रमेण धर्मश्रवणसमनन्तरं प्रव्रज्याप्रतिपत्तिः। ततो द्वादश वर्षाणि सूत्रग्रहणं पश्चात् द्वादश वर्षाण्यर्थग्रहणं ततो द्वादशवर्षाण्यस्थविरकल्पः नियतवासी देशदर्शनं कुरुते / कुर्वन्नेव च देशदर्शनं निष्पादयति शिष्यान् / शिष्यनिष्पचेरनन्तरं प्रतिपद्यते अभ्युद्यतविहारम् / स च त्रिविधः-जिनकल्पः शुद्धः परिहारो यथालन्दश्च / तत्र जिनकल्पप्रतिपत्तियोग्य एव जिनकल्पं प्रतिपत्तुकामः प्रथममेव तपःसत्त्वादिभावनाभिरात्मानं भावयति / भावितात्मा च द्विविधे परिकर्मणि प्रवर्तते / यदि पाणिपात्रलब्धिरस्ति ततस्तदनुरूपमेव परिकर्माचेष्टते / अथ पाणिपात्रलब्धिर्नास्ति ततः प्रतिग्रहधारित्वपरिकर्मणि प्रवर्तते / तत्र यः कल्पे उपधिः "चा पाणिपात्रलंब्धिसम्पन्नस्तस्योपधिरवश्यतया रजोहरणं मुखवस्त्रिका च / कल्पग्रहणात् त्रिविधश्चतुर्विधः पञ्चविधो वा / प्रतिग्रहधारिणस्तु नवप्रकारोऽवश्यतया, कल्पग्रहणाद् दशविध एकादशविधो (द्वादशविधो) वा उपधिरागमाभिहितः / एवंविधं नाग्न्यमिष्टम् / दशविधसामाचार्या चेमाः पञ्च तेषां सामाचार्यः आप्रच्छनं मिथ्यादुष्कृतमावश्यका निशीथि(षेधि ?)का गृहस्थोपसम्पच्च / उपरितनी वा त्रिप्रकारा सामाचारी आवश्यकादिका / श्रुतसम्पदपि तेषामाचारवस्तु नवमस्य पूर्वस्य जघन्यतः / तत्र हि कालपरिज्ञानं न्यक्षेण, उत्कर्षण दश पूर्वाणि भिन्नानि, न सम्पूर्णानि / वज्रर्षभनाराचसंहननाश्च ते वज्रकुड्यकल्पधृतयः। स्थितिरपि तेषां क्षेत्रादिका अनेकभेदा / क्षेत्रतस्तावद् जन्मना सद्भावेन च सर्वास्वेव कर्मभूमिषु, संहरणतः कदाचित् कर्मभूमावकर्मभूमौ वा, अवसर्पिण्यां कालतः तृतीयचतुर्थयोः समयोर्जन्मतः त्रिचतुर्थपञ्चमीषु सद्भावः / चतुर्थी लब्धजन्मा पञ्चम्यां प्रव्रजति / उत्सर्पिण्या दुष्षमादिषु त्रिषु कालविभागेषु जन्म, द्वयोस्तु सद्भावः / सामायिकच्छेदोपस्थाप्ययोर्जिनकल्पप्रतिपत्तिश्चरणयोः / एवं तीर्थपयोयागर्मवेदादिकाऽपि स्थितिरुपयुज्यागमानुसारेण वाच्या। ननु चाचेलक्यादिर्दशविधः कल्पः / तत्राचेलक्यं स्फुटमेवोक्तम् / तत्र च मध्यमतीर्थवर्तिनां सामायिकसंयतानां चतुर्विधः कल्पोऽवस्थितोऽवश्यतया करणीयः / यथाऽऽहअयस्थितकल्पस्य “शय्यातरपिण्डत्यागः कृतिकर्म च तथा व्रतादेशः। चातुर्विध्यम् पुरुषज्येष्ठत्वं हि, चत्वारोऽवस्थिताः कल्पाः // 1 // " 1 'प्राणाया०' इति च-पाठः / 2 'तत्र ग्रहणं' इति ङ-पाठः / 3' स्थापनयोः' इति ग-पाठः / ४'वेषादि ' इति हु-पाठः।