________________ 224 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 9 परीषहाः / तथा ज्ञानावरणादिकर्मक्षपणार्थ च (परि)सोढव्याः सिद्वि[प्रस्थान प्राप्तिकारणसंवरविनहेतवः परिषोढव्याः, परीषहा इति निर्वचनम् / समन्तादापतन्तः क्षुत्पिपासादयो द्रव्यक्षेत्रकालभावापेक्षाः सोढव्याः-सहितव्याः परीपहा भण्यन्ते / “कृत्यल्युटो बहुलं" (पा० अ० 3, पा० 3, मू० 113 ) इति करणाधिकरणाभ्यामन्यत्रापि कर्मणि घप्रत्ययः / परिसह्यन्त इति परीपहाः // 8 // कियन्तस्ते किनामानः किंस्वरूपाश्चेत्याहभा०-तद्यथाटी-तद्यथेति सङ्ख्यादिनिरूपणोपक्रमणम् / सूत्रम्-क्षुत्पिपासाशीतोष्णदंशमशकनाम्यारतिस्त्रीचर्यानिषद्या. 22 परीषहाः .. शय्याऽऽक्रोशवधयाचनाऽलाभरोगतृणस्पर्शमलसत्कार पुरस्कारप्रज्ञाऽज्ञानादर्शनानि // 9-9 // टी-क्षुत्पिपासेति सूत्रम् / क्षुत्पिपासादयः परीपहा द्वाविंशतिर्नामतः क्षुदादिनामानः / स्वरूपमपि शब्दार्थेनावेदितमेव / सङ्ख्यादीनां त्रयाणामपि प्रदर्शनं करोति भाष्यकार: भा०-क्षुत्परीषहः 1 पिपासा 2 शीतं 3 उष्णं 4 दशमशकं 5 नाम्यं 6 अरतिः 7 स्त्रीपरीषहः 8 चोपरीषहः 9 निषद्या 10 शय्या 11 आक्रोशः 12 षधः 13 याचनं 14 अलाभः 15 रोगः 16 तृणस्पर्शः 17 मलं 18 सत्कारपुरस्कारः 19 प्रज्ञाऽज्ञाने 20-21 अदर्शनपरीषहः 22 इति // टी-क्षुद्वेदनामुदिता शेपवेदनातिशायिनी सम्यग् विषहमानस्य जठरान्त्रविदाहिनीमागमविहितेन विधिना क्षुधां शमयतोऽनेपणीयं च परिहरतः क्षुत्परीषहजयो भवति / अनेषणीयग्रहणे तु न विजितः स्यात् क्षुत्परीपहः / एवं पिपासापरीषहः / एषणीयभावे तु प्राणिदयालुना समस्तमनेषणीयं परिहरता शरीरस्थितिः कार्यो / शीतपरीषहजयस्तु शीते पतति महत्यपि जीर्णवसनः परित्राणवर्जितो नाकल्पानि वासांसि गृह्णाति शीतत्राणाय / आगमविहितेन विधिना एपणीयमेव कल्यादि गवेपयेत् परिभुञ्जीत वा / नापि शीतार्तोऽनि ज्वालयेत् / अन्यज्वालितं वा नासेवेत / एवमनुतिष्ठता शीतपरीपहजयः कृतो भवति / एवमुष्णतप्तोऽपि जलावगाहनस्तानव्यजनवातादि वर्जयेत्, अभिधारितच्छायादि वा / अत १'क्षुधादि' इति च-पाठः। 2 ऽनैषणायां च.' इति हु-च-पाठः।