________________ सूत्र 8] स्वोपज्ञभाष्य-टीकालङ्कृतम् 223 तथोक्तः / संसारो नरकादिगतिचतुष्टयं तसान्निर्वाहको निस्तारकः / न चासावभावीभवति मुक्तावस्थायामित्याह____ भा०-निःश्रेयसप्रापको भगवता परमर्षिणाऽहंताऽहो स्वाख्यातो धर्म इत्येवमनुचिन्तयेत् / एवं ह्यस्य धर्मस्वाख्यातत्वमनुचिन्तयतो मार्गाच्यवने तदनुष्ठाने च व्यवस्थानं भवतीति धर्मस्वाख्यातत्वानुचिन्तनानुप्रेक्षा // 12 // 7 // टी-निःश्रेयसप्रापक इति / निश्चितं श्रेयो निःश्रेयसं-स्वात्मन्येवावस्थानं समस्तकर्मापेतस्य निःश्रेयसमुच्यते तस्य प्रापकः, तस्य पर्यायान्तरस्योत्पादक इत्यर्थः / यशोविभवादियुक्तो भगवान्, परमर्षिरिति समधिगतसकलज्ञानस्तीर्थकरनामकर्मोदयात् तीर्थस्य प्रणायकः चन्दनपूजाधोऽहेन तेनामोधवचनेन स्वाख्यातो अहो इत्याश्चर्ये नापरेण केनचिदेवं कथितः, सुगृत्सर्गापवादलक्षणः, ख्यातो धर्म इत्येवमस्य धर्मस्वाख्यातत्वमनुचिन्तयतो मार्गाच्यवने तदनुष्ठाने वाऽवस्थानं भवतीति / मार्गो-रत्नत्रयं मुक्तेः पन्थाः तस्मादच्यवनम्-अप्रच्यवनमनपेतत्वम् / तदिति मार्गस्य सम्बन्धः, तस्यानुष्ठानंश्रद्धानं स्वाध्यायक्रिया चरणम् / एतदेव परमार्थतोऽच्यवनं मार्गाद् यथोक्तक्रियाऽनुष्ठानमित्येषा धर्मस्वाख्यातत्वानुचिन्तनानुप्रेक्षा॥७॥ भा०—उक्ता अनुप्रेक्षाः / परीषहान् वक्ष्यामः री०-उक्ता अनुप्रेक्षाः सोदाहरणाः / सम्प्रति परीषहान् वक्ष्याम इति प्रतिजानीते र सूत्रम्-मार्गाच्यवन-निर्जरार्थ परिपोढव्याः परीपरीषहसहने पहेतू षहाः॥९-८॥ भा०–सम्यग्दर्शनादेर्मोक्षमार्गादच्यवनार्थ कर्मनिर्जरार्थ च परिषोढव्याः परीषहा इति // 8 // टी-अर्थशब्दः प्रत्येकमभिसम्बध्यते-मार्गाच्यवनार्थ निर्जरार्थ च / परीषहाधिसहने मार्गाच्यवनं प्रयोजनम् / कदाचित् क्लिष्टचित्तः क्लीयत्वात् सहनासमर्थः सन्मार्गाव प्रच्यवेतापि अतस्तत्सहनादरः मार्गः, तस्य तु सम्यगधिसहमानस्य गिरेरिव निष्प्रकम्पचेतसो निराकुलध्यानस्य जायते कर्मनिर्जरा / एतदेवाह-सम्यग्दर्शनादेरित्यादिना / तत्वार्थश्रद्धानादिलक्षणो मार्गो निवृतेरात्यन्तिक्याः, तस्या मार्गान्मा प्रच्योष्महीति सह्यन्ते १.निःसारकः' इति च-पाठः। 2 'मर्षिणाऽहो ख्यातो धर्म' इति ग-पाठः। 3 'स्वाख्याततत्त्व.' इति घ-पाठः। 4 'आत्मन्येव ' इति ङ-पाठः। 5 विभावादि ' इति घ-पाठः। 6 'कुलस्य ध्यानैक(?)जायते' इति ग-च-पाठः। श्रद्धानाधानादि' इति ग-पाठः।