________________ 222 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 9 अनादौ संसारे इत्यादिना बोधिदुर्लभत्वानुप्रेक्षां निरूपयति-- भा०-अनादौ संसारे नरकादिषु तेषु तेषु भवग्रहणेष्वनन्तकृत्वः परिवर्तमानस्य जन्तोविविधदुःखाभिहतस्य मिथ्यादर्शनाद्युपहतमतेर्ज्ञानदर्शनावरणमो. हान्तरायोदयाभिभूतस्य / टी०-अनादाविति सर्वकालावस्थायिनि / संसारे किस्रूपेग नरकादिष्वित्याह, तेष तेषु भवग्रहणेविति / तेष्वेव नरक-तिर्यङ्-मनुष्या-ऽमरभवग्रहणेषु पुनः पुनश्चक्रवत् परिभ्रमतोऽनन्तकृत्वः प्राणिनः शारीरमानसैनानाप्रकारै दुःखैरालीढस्य तत्वार्थाश्रद्धानाविरतिप्रमादकषायादिभिरुपहतमतेः, ज्ञानावरणाादयाभिभूतस्य-ज्ञानावरणादिकर्मचतुष्टयं पातिकर्म विशेषतो मोहनीयं सम्यग्दर्शनादिमार्गस्य विघातकमित्येतदाह / .. भा०–सम्यग्दर्शनादिविशुद्धो बोधिदुर्लभो भवतीत्यनुचिन्तयेत् / एवं घस्य बोधिदुर्लभत्वमनुचिन्तयतो बोधिं प्राप्य प्रमादो न भवतीति बोधिदुर्लभस्वानुप्रेक्षा // 11 // टी०-सम्यग्दर्शनादीत्यादि / सम्यग्दर्शनविरत्यप्रमादकषायविशुद्धो बोधिदुर्लमो . भवतीति विभक्तिविपरिणामेनाभिसम्बन्धनीयम् / जन्तुना दुर्लभ इति / " बोधिशब्देनात्र चारित्रमेव विवक्षितम् / अथवा पाठान्तरं सम्यग्दर्शनादिविशुद्धो बोधिः सम्यग्दर्शनादिरेव बोधिरपगतसकलशङ्कादिदोषरहितो दुःखेन लभ्यत इति / एवं बोधिदुर्लभत्वमनुचिन्तयतो बोधि प्राप्य प्रमादो न भवतीति घोषिदुर्लभत्वानुप्रेक्षा // स्वाख्यातधर्मानुप्रेक्षाप्रतिपादनायाह भा०-सम्यग्दर्शनद्वारः पञ्चमहाव्रतसाधनो मादशाङ्गोपदिष्टतत्त्वो गुप्त्यादिविशुद्धव्यवस्थानः संसारनिर्वाहकः। . टी०-सम्यग्दर्शनद्वार इत्यादि / तत्वार्थश्रद्धानलक्षणं सम्यग्दर्शनं तत् द्वार-मुर्ख यस्य धर्मस्येति / नहि सम्यग्दर्शनप्रतिष्ठामन्तरेण महाव्रतादिलाभः समस्ति / प्रागेव सम्यग्दर्शन द्वारभूतं धर्मानुष्ठानस्येति प्रतिपादयति, सम्यग्दर्शनद्वारेण धर्मावगाह इति / पश्च महाव्रतानि साधनं यस्येत्यनेन समस्तमूलोत्तरगुणपरिग्रहः / आचारादीनि दृष्टिवादपर्यन्तानि द्वादशाङ्गानि-अहंदाप्तप्रणीतागमः तेनोपदिष्टं तत्त्वं-स्वरूपं यस्य धर्मस्य, चरणकरणलक्षणस्येत्यर्थः / गुप्तिसमितिपरिपालनविशुद्धं व्यवस्थानमस्येति / गुप्तिभिः समितिभिश्च परिपालनं-परिरक्षणं विशुद्ध-निर्मल व्यवस्थान-स्वरूपावस्थानं यस्य स पाठभेदः 1 स्वरूपे इति ग-पाठः। २'दर्शनाधारभूतं ' इति ङ-पाठः। * धर्माचार्यस्य इति अ-पाठः /