________________ 221 सूत्रं 7 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् मनीषितं तु तेन तपःपरीषहजयाभ्यां मोक्षः प्राप्यः / तत्र या प्रवृत्तिस्तपसि परीपहजये वा सा बुद्धिपूर्विका विपाकहेतुरिति / तस्मादेवमनुचिन्तयन् कर्मनिर्जरणायैव घटते इति निर्जरानुप्रेक्षा // 9 // पञ्चास्तिकायात्मकमित्यादिना लोकानुप्रेक्षास्वरूपं निरूपयति भा-पञ्चास्तिकायात्मक विविधपरिणामनुत्पत्तिस्थित्यन्यतानुग्रहप्रलययुक्तं लोकं चित्रस्वभावमनुचिन्तयेत्। एवं ह्यस्य चिन्तयतस्तत्त्वज्ञानविशुद्धिभवतीति लोकानुप्रेक्षा // 10 // टी-पश्चास्तिकायात्मकमित्यादिना / पश्चास्तिकाया धर्मा-ऽधर्माऽऽकाश-पुद्गलजीवाख्यास्ते आत्मानः-स्वरूपमस्येति, लोकमित्युपरिष्टाद् वक्ष्यति / विविधो-नानाप्रकारः परिणामो यस्येति, तमेवं विधपरिणामं दर्शयति-उत्पत्तिस्थितीत्यादि / उत्पत्ति िविधा प्रतिक्षणवर्तिनी कालान्तरवर्तिनी च। प्रतिक्षणवर्तिनी च अविभाव्यान्त्यउत्पत्तेद्वैविध्यम् प्रलयानुमेया, प्रतिक्षणमन्यथाऽन्यथा चोत्पद्यन्ते परिणमन्ते भावा अस्ति कायाः / कालान्तरवर्तिनी मृद्रव्यं पिण्डाद्याकारेण मृद्भावं प्रेक्षीणमपहाय पिण्डादिरूपेण परिणमते / स्थितिः-अवस्थानं [ अस्तिकाय इति ] अस्तिकायरूपेण सर्वदा व्यवस्थानात् / धर्मास्तिकायादिव्यपदेशमजहतः ते सर्वदा व्यवतिष्ठन्ते वचनार्थपर्यायः / भन्यता तूत्पत्तिस्थितिभ्यामन्यत्वं-विनाशः / सोऽपि द्विविधः-क्षणिकः कालान्तरवर्ती च / विवक्षितक्षणाद् द्वितीयक्षणेऽन्यत्वमवश्यम्भावीत्यवस्थान्तरापत्तिरेव विनाशः, न निरन्वयः कचिदस्ति प्रलयः। स्थित्युत्पत्ती अनुग्रहकारिण्यौ सवानाम् / घटो हि समुत्पअस्तिष्ठश्च जलाहरणधारणादिरूपेणानुगृह्णाति / प्रलयोऽपि कालान्तरभावी भवत्यनुग्राहको विनाशसंज्ञितः / कुण्डलार्थिनः कटकविनाशवत् / अत एव(भिः१) उत्पच्यादिभिर्युक्तमुत्पत्त्यादिपरिणतिस्वभावं लोकं जीवाजीवाधारलक्षणं क्षेत्रम् / अत एव चित्रस्वभावमिति / चित्रो-नानाप्रकारः स्वभावः-स्वरूपं यस्य मुखदुःखप्रकर्षापर्परूपत्वात् पैचित्र्याच कर्मपरिणतः। एवं ह्यस्य चिन्तयतस्तत्त्वज्ञानविशुद्धिर्भवतीति लोकानुप्रेक्षा / एवम्उक्तेन प्रकारेण लोकस्वरूपमभिध्यायतस्तत्त्वेषु जीवाजीवादिषु पदार्थेषु विशुद्ध-निर्मल शङ्कादिदोषरहितं ज्ञानं भवति / यथा भगवद्भिरुक्तम् (आवश्यके ?)-"सन्ध(वाई) ठाणाई असासयाई" ति / न कचिदस्मिन् व्यावर्णितलक्षणे लोके किश्चित् स्थानमस्ति शाश्वत यत्रात्यन्तिकी निईतिरात्मनो भवतीत्याह / परलोकनिरपेक्षस्य च मोक्षायैव चेतोवृत्तिरनुगुणा भवतीति लोकानुप्रेक्षा॥ १'उत्पसिस्थित्यनन्तानुग्रहप्रलययुक्त' इति उ-पाटः। 2 प्रकीर्णमय' इति ङ-च-पाठः / 3 छायासर्वाणि स्थानानि अशाश्वतानि इति। 'यत्रोत्पत्तिकी' इति घ-पाठः /