________________ 220 तत्वार्थाधिगमसूत्रम [ अध्यायः 9 टी-निर्जरा वेदनेत्यादि / निर्जरणं निर्जरा आत्मप्रदेशेभ्योऽनुभूतरसकर्मपुद्गलपरिशंटना / निर्जराया एकार्थाविमौ वेदना विपाक इति / तत्र वेदना अनुभवः तस्याः स्वादनं विपचन विपाका / कर्मपुद्गलानां उदयावलिकाप्रवेशेऽनुभूतरसानामुत्तरकालं परिशाटः / विपच्यमाना विषकाः परिशटन्ति / भा०--स विविधः-अबुद्धिपूर्वः कुशलमूलश्च / तत्र नरकादिषु कर्मफल विपाकोदयोऽबुद्धिपूर्वकस्तमवद्यतोऽनुचिन्तयेत् अकुशलानु विपाकस्य वैविध्यम् बन्ध इति // टी-स द्विविधः इति विपाकाभिसम्बन्धः / निर्जरया सहै कार्थत्वाद्। तद्वैविध्यप्रदर्शनायाह-अबुद्धीत्यादि / तत्राबुद्धिपूर्वः बुद्धिः पूर्वा यस्य कर्म शाटयामीत्येवंलक्षणा शुद्धिः प्रथमं यस्य विपाकस्य स बुद्धिपूर्वः न बुद्धिपूर्वोऽयुद्धिपूर्वः, तत्र तयोर्विपाकयोरयं तावदबुद्धिपूर्वः नरकतिर्यमनुष्यामरेषु कर्म ज्ञानावरणादि तस्य यत् फलमाच्छादकादिरूपं तद्विपाकः तदुदयस्तस्मात् कर्मफलाद् विपच्यमानाद् यो विनिजेरणलक्षणो विपाकः / सति तस्मिन् कर्मफले विपच्यमाने स भवत्यबुद्धिपूर्वकः / न हि तैस्तपः परीपहजयो वा नारकादिभिर्मनीषितः / तमेवंविधं विपाकमवद्यतः पापं संसारानुबन्धिनमेव चिन्तयेत्, नहि तादृशा निर्जरया मोक्षः शक्योऽधिगन्तुमिति / एतदेवाह -अकुशलानुबन्ध इति / यस्मादुपभुज्यापि तत् कर्मफलं पुनः संमृतावेव भ्रमितव्यम् / भा०--तपःपरीषहजयकृतः कुशलमूलः / तं गुणतोऽनुचिन्तयेत् शुभानुपन्धो निरनुबन्धो वेति / एवमनुचिन्तयन् कर्म निर्जरणायैव घटत इति निर्जराऽनुप्रेक्षा // 9 // टी-यः पुनः कुशलमूलो विपाकस्तपसा द्वादश विधेन परीषहजयेन वा कृतः सोऽवश्यंतयैव बुद्धिपूर्वकः / तमेवंविधं गुणत इति / गुणम्-उपकारकमेव चिन्तयेत् / यस्मात् स तादृशो विपाकः शुभमनुबध्नाति, अमरेषु तावदिन्द्रसामानिकादिस्थानानि अवाप्नोति / मनुष्येषु च चक्राबिलमहामण्डलिकादिपदानि लब्ध्या ततः सुखपरम्परया मुक्तिमवाप्स्यतीति शुभानुबन्धा निरनुबन्धो वेति / वाशब्दः पूर्व विकल्पापेक्षः / तपःपरीषहजयकृतो विपाकः सकलकर्मक्षयलक्षणः साक्षान्मोक्षायैव कारणीभवतीति // ननु च यदि घुद्धिपूर्वको देवादिफलः शुभानुबन्धो विपाकस्तत आगमेन सह विरोधः "नो इह लोगहयाए तवं अहिडेजा" (अ० 9, उ० 4, मू० 4) भण्यते, न घुमुक्षुणा देवादिफल मिष्टं, सहित(१) मोक्षार्थमेव घटते, यदान्तरालिकं फलं देवादि तदानुषङ्गिक, इक्षुवनसेके तृणादिसेकवत् / परिशटनं' इति उ-पाठः। 2 वा निर्जरणक' इति ग-पाठः। 3 'महित / इति च-पाठः / 1 'देवादिकृतः' इति कु-पाठः / 5 दशवैकालिकाख्येन। 6 छाया-न इह लोकार्थ तपः अधितिष्ठेत् /