________________ 218 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 9 तस्याः स्रोतः-प्रवाहः तस्य वेगः-(सं)सर्पणविशेषः तद्वत् तीक्ष्णान् / यथा स नदीप्रवाहः तृणकाष्ठादि पतितमपहरति, एवमेते चक्षुरादयः स्वप्रवाहपतितमात्मानमउत्तरार्धस्य पहरन्ति, सन्मार्गाद् भ्रंशयन्ति / अकुशलं-पापं सामान्येन वा कर्मबन्धअर्थद्वयम् स्तस्यागमः-प्रवेशस्तवारभूतान्, कुशलस्य च पुण्यस्य दशविधधर्मस्य निर्गमद्वारभूतान् / इन्द्रियमादिर्येषां ते इन्द्रियादयस्तानवद्यतः-खण्डयतो जीवस्यापकारिणश्चिन्तयेत्। अथवा अवयं-गर्हितं गर्हितान् पापान इत्येवं चिन्तयेत् / तद्यथेत्यादिना सोदाहरणानासवान दर्शयति भा०—तद्यथा-स्पर्शनेन्द्रियप्रसक्तचित्तः सिद्धोऽनेकविद्याबलसम्पन्नोऽप्याकाशगोऽष्टाऽङ्गमहानिमित्तपारगो गाग्र्यः सत्यकिनिधनमाजगाम / तथा प्रभूतयवसोदकप्रमाथावगाहादिगुणसम्पन्नविचारिणश्च मदोत्कटा बलवन्तो हस्तिनो हस्तिबन्धकीषु स्पर्शनेन्द्रियसक्तचित्ता ग्रहणमुपगाछन्ति / ततो बन्ध वध-दमन(वाहन)निहननाऽङ्कुश पाणिप्रतादाभिघातादिजनितानि तीव्राणि दुःखान्यनुभवन्ति / नित्यमेवं स्वच्छ.दप्रचारसुखस्य वनवासस्यानुस्मरन्ति / तथा मैथुनसुखप्रसङ्गादाहितगोश्वतरी प्रसवकाले प्रसवितुमशक्नुवती तीव्रदुःखाभिहता अवशा मरणमभ्युपैति / एवं सर्व एव स्पर्शनेन्द्रियप्रसक्ता इहामुत्र च विनिपातमृच्छन्तीति // टी.-सिद्धविद्यः सोऽनेकेन विद्याबलेन युक्तोऽपि वियद्विचारी अङ्गस्वरलक्षणादि अष्टाङ्गनिमित्तं तस्य पारङ्गतो गार्य इति गोत्राख्या सत्यकिः स्त्रीवासक्तचित्तो निधनंविनाशमुपजगामेति / तथेत्य परमुदाहरणम् / यवसः-चरणीयविशेषः तस्य प्रमाथो भञ्जनमर्दनाभ्यवहारलक्षणः। उदके च स्वेच्छयाऽवगाहः / अवगाहादिगुणसम्पन्नेति / आदिग्रहणात् सिंहादिव्यालरहितत्वम् / एवंविधवनविचारिणो मदेन दुष्टतरा हस्तिनः। हस्तिबन्धकीध्विति गणि(करेणु?)कानां संज्ञा / तास्वनेकप्रकारं चाटुकरणस्पर्शनादिमिः प्रौढयोषित इव मनुजान् प्रतारयन्ति हस्तिमूर्खान् / बन्धः-संयमनं वधः-ताडनं दमनशिक्षाग्रहणं पश्चाद् (वाहन) निहननं-अङ्कुशाभिघातः प्रतोदः-प्राजनकस्तेनाभिघातः / आदिग्रहणादतिभारारोपणं, युद्धकाले च शस्त्राभिघातः / तथेति दृष्टान्तान्तरमाह-तथा मैथुनति। मैथुनसुखप्रसङ्गेनाहितः-धृतो गर्भो यस्या अश्वतरी-वेगसरी प्रसवकाले मरणमभ्युपैत्यवशा। एवमित्यादिना दार्शन्तिकमर्थमुपसंहरति / एवमुक्तेन न्यायेन लोकदयेऽपि विनाशमृच्छन्ति-प्राप्नुवन्तीति / 'मार्गात् ' इति ङ-पाठः। 2 'वन्तोऽपि हस्ति.' इति घ-पाठः। घ-पाठः। ४'मूर्तान्' इति हु-च-पाठः। 3 'स्वयूथस्य स्वच्छन्द ' इति