________________ 217 सूत्र 7 ] स्त्रोपज्ञभाष्य-टीकालङ्कृतम् भा०-किश्चान्यत्-अशक्यप्रतीकारत्वात् / अशक्यप्रतीकारं खल्वपि शरीरस्याशुचित्यम् , उवर्तन रूक्षण स्नाना-ऽनुलेपन-धूप प्रघर्ष वासयुक्ति माल्यादिभिरप्यस्य न शक्यमशुचित्वमपनेतुम् / री०-किश्चान्यदिति प्रकारान्तरेणाशुचित्वप्रतिपादनम् / अशक्यप्रतीकारत्वादिति / अशक्यः प्रतीकारो यस्याशुचित्वस्य / अशुच्यपनयनप्रकारश्च लोके जलक्षालनादिना प्रसिद्धः। उद्वर्तनकं प्रतीतम् / रूक्षणं रोधकषायादिभिः / स्नानं जलेन / अनुलेपनं चन्दनादिकम् / धूपो विशिष्टसुगन्धिद्रव्यसमवायः। प्रघर्षोऽङ्गघर्षणकम् / वासयुक्तिः पटवासादिकम् / माल्यं माला, पुष्पम् / आदिग्रहणात् कर्पूरोशीरतुरुष्ककस्तूरिकाग्रहः / एमिरप्यस्य शरीरकस्य विशिष्टद्रव्यैरशुचित्वमपनेतुं न शक्यम् / कुतः 1 भा०-अशुच्यात्मकत्वात् शुच्युपांतकत्वाचेति / तस्मादशुचि शरीरमिति / एवं ह्यस्य चिन्तयतः शरीरे निर्वेदो भवतीति / निर्विण्णश्च शरीर(रे जन्म)प्रहाणाय घटत इत्यशुचित्वानुप्रेक्षा // 6 // ट-अशुच्यात्मकत्वादिति / अशुचिरात्मा-स्वभावो यस्य तदशुच्यात्मकम् / अशुचिस्वभावस्य पुरीषादेवि अशक्यप्रतीकारम् अशुचित्यापनयनम् / शुच्युपघातकत्वाचाशुचि शरीरम् / शुचीनि द्रव्याणि शाल्योदनदधिक्षीरादीनि, तान्यप्यात्मसम्पर्कादुपहन्ति-अशुचीकरोति / तथा कर्पूर-चन्दन-काश्मीरजादीनि सुगन्धिद्रव्याणि संश्लेषमात्रादेव पूतीकरोति, अतोऽन्विष्यमाणं सर्वप्रकार शरीरमेवाशुचि / परमार्थतो नापरं किञ्चित् स्वतो. ऽशुचि समस्ति शरीरकं वा शरीरसम्पृक्तं वा विहायेति / एवं ह्यस्य चिन्तयत इत्यादिना अशुचित्वानुप्रेक्षायाः फलमाह-निर्वेद:--अप्रीतिः अरतिः-उद्वेगः। शरीरके निर्विण्णश्च न शरीरसंस्कारार्थमायतते / जन्मप्रहाणायैव तु घटते इत्यशुचित्वानुप्रेक्षा // 6 // आस्रवानुप्रेक्षास्वभावप्रकाशनायाह भा०-आस्रवान् इहामुत्रापाययुक्तान् महानदीस्रोतोवेगतीक्ष्णान अकशालागमकुशल निर्गमबारभूतान् इन्द्रियादीन् अवद्यतश्चिन्तयेत् / टी-आम्रयते-यैः कर्मादीयते त आस्रवास्ते इन्द्रियादयस्तानास्रवानिह लोके / अमुत्रेति परलोके / अपायो-दोषः पीडा दुःखं तेनापायेन युक्तान् / महानदी-गङ्गादिका २'भवति' इति घ-पाठः। ३'दधिपूरदधिः ' इति उ-पाठः / 'घातत्वा.' इति ग-पाठः / 24