________________ 216 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 9 न्ताशुचिः / ततोऽपि पित्तस्थानप्राप्तो मलतामापन्नोऽशुचिरेव / ततो वाय्वाशयं प्राप्तः समीरणेन विभज्यमानः पृथक् खलः पृथग रस इति द्वयीं परिणतिमापद्यते / तत्र खलात् मूत्र-पुरीष-दूषिका-स्वेद-लालादयो मलाः प्रादुष्ष्यन्ति / रसाच्छोणित-मांस-मेदोऽस्थिमज्जा-शुक्राणि जायन्ते / सर्व चैतत् कफादिशुक्रान्तमशुच्येव, तस्मादाधुत्तरकारणाशुचित्वादशुचि शरीरमिति निगमयति // अशुचित्वे हेत्वन्तरमाह भा०-किश्चान्यत्---अशुचिभाजनत्वात् अशुचीनां खल्वपि भाजनं शरीरं कर्ण-नासाऽक्षि-दन्त-मल-स्वेद-श्लेष्म पित्त-मूत्र पुरीषादीनामवस्करभूतं तस्मादशुचीति // किश्चान्यत्-अशुच्युद्भवत्वात् एषामेव कर्णमलादीनामुद्भवः शरीरं तत उद्भवन्तीति / अशुचौ च गर्भे सम्भवतीत्यशुचि शरीरम् // किश्चान्यतअशुभपरिणामपाकानुबन्धादातवे बिन्दोराधानात् प्रभृति खल्वपि शरीरं कलला-ऽर्बुदपेशी-घनव्यूह सम्पूर्णगर्भ-कौमार-यौवन-स्थविर-भावजनकनाशुभप. रिणामपाकेनानुबद्धं दुर्गन्धि पूतिस्वभावं दुरन्तं तस्मादशुचि // टी-किश्चान्यत्। अशुचिभाजनत्वादिति / अशुचीनि कर्णमलादीनि तेषामवस्करभूतम् / अवस्करो वर्चःस्थानं पाद(पायुः)क्षालनकं तदिव यत् तदवस्करभूतं तस्मादशुचीति / किश्चान्यत्-अशुच्युद्भवत्वादिति हेत्वन्तरम् / एषामेव कणमलादीनामशुचीनामुद्भव आकरः शरीरं यस्मात् तत उद्भवन्ति-उत्पद्यन्ते एते कर्णमलादयः, अनन्तरेण हेतुना उत्पन्नानां कर्णमलादीनामाश्रयः शरीरमिति प्रतिपादितम्। अनेन पुनर्हेतुना शरीगदेव कर्णमलादय उत्पद्यन्त इति प्रतिपाद्यते। अथवाऽयं विशेषः-अशुचौ च गर्भे सम्भवतीत्यशुधि शरीरम् / गर्भः-उदरमध्यम् / चशब्दो वाशब्दार्थे / अशुचो वा गर्भे पुरीषादिप्राय सम्भवतिउत्पद्यते यस्माच्छरीरं तस्मादशुचीति / किश्चान्यदित्ययमपरो हेतुरशुचित्वे / अशुभपरिणामपाकानुबन्धादिति / अशुभः परिणामो यस्य पाकस्य तेनानुबन्धित्वात् अनुगतत्वात् / तमेवाशुभपरिणामं पाकं प्रकाशयति (आर्तव इत्यादिना) आर्तवम्-ऋतौ (भव) शोणितं तस्मिन् आतवे सति / बिन्दोराधानात प्रभृतीति / बिन्दुः--शुक्रावयवस्तदाधानात्-तत्प्रक्षेपात् प्रभृति औदारिकं कललादिभावेन परिणमते / अर्बुदं-घनव्यूहोऽवयव विभागः / सर्वश्वायमशुभपरिणामः पाकः कललाद्यवयवरूपस्तेनानुबद्धं दुर्गन्धि-अशुभगन्धम् / अत एव पूतिस्वभाव कोथस्वभावम् / दुरन्तमिति / पर्यवसानेऽपि कृम्यादिपुञ्जो वा गृध्र-सारमेय-वायसादिभक्ष्यं वा भस्मान्तमस्थिशकलानि वा / एवमिदं दुष्टा(र १)न्तं शरीरं यतस्तस्मादशुचीति // १'अशचि परि.' इति उ-पाठः / 2' बन्धाद दुर्गन्धपूति' इति ग-पाठः / 3 ' अशुचिभाजनवदिति ङ-पाठः। ४'वयंस्थानं' इति ङ-पाठः / 5 काथस्व.' इति ग-पाठः / 6 'कृष्णादि ' इति क-पाठः।