________________ सूत्र 7 ] . स्वोपनभाष्य-टीकालङ्कृतम् 215 भा०-अशुचि खल्विदं शरीरमिति चिन्तयेत् / तत् कथमशरीरस्याशुचित्वे हेतुपञ्चकम् / व शुचीति चेत् आद्युत्तरकारणाशुचित्वात् , अशुचिभाजनत्वात्, - अशुच्युद्भवत्वात्, अशुभपरिणामपाकानुबन्धात्, अशक्यप्रतीकारत्वाचेति // टी-अशुचि खल्विदं शरीरमित्यादि / शुचि-मलरहितं न शुच्यशुचि शरीरकंपाणिपादाद्यवयवसन्निवेशविशेषस्तदशुचीत्येवं चिन्तयेत् / ननु च निर्मलशरीराः स्निग्धत्वचः स्त्रियः पुमांसश्च दृश्यन्ते, तत् कथमस्य प्रतिज्ञामात्रेणाशुचित्वं प्रतिपद्येमहीत्याह-- भा०-तत्राद्युत्तरकारणाशुचित्वात् तावच्छरीरस्याचं कारणं शुक्र शोणितं च तदुभयमत्यन्ताशुचीति / उत्तरमाहारपरिणामादि / टी०-तत्राद्युत्तरकारणाशुचित्वादित्यादि हेतुपश्चकम् / तत्र-तेषु पञ्चसु हेतुषु आयुत्तरकारणाशुचित्वादित्यस्य व्याख्या / तावच्छब्दः क्रमावद्योतनार्थः। आधे कारणप्रथमं शुक्रं शोणितं च / करोतीति कारणम् , निर्वतयति उत्पादयतीत्यर्थः। येनासा(योना?)वुत्पद्यमानो जीवस्तैजसकार्मणशरीरी प्रथममेव शुक्रशोणिते अभ्यवहरति शरीरीकरोति औदारिकशरीरतया परिणमयति / ततः कललार्बुदपेशीधनपाणिपादाद्यङ्गोपाङ्गशोणितमांसमस्तुलुङ्गास्थिमज्जकेशश्मश्रुनखशिराधमनीरोमकूपादिना परिणमयति / उत्तरकारणं तु रसहरण्या परस्परप्रतिबद्धया जनन्याहृतमाहाररसमभ्यवहरति / तदेव तदुभयमत्यन्ताशुचीति शुक्रशोणितयोरशुचित्वं लोकस्य प्रतीतमिति ख्यापयति अत्यन्ताशुचीति, न जातुचिच्छुचित्वं शुक्रशोणितयोः समस्ति / भा०-तद्यथा-कवलाहारो हि ग्रस्तमात्र एव श्लेष्माशयं प्राप्य श्लेष्मणा द्रवीकृतः अत्यन्ताशुचिर्भवतीति / ततः पित्ताशयं प्राप्य पच्यमानः खेलीभूतोऽ शुचिरेव भवति / पक्को वाय्वाशयं प्राप्य वायुना 'विभिद्यते पृथक् खलः पृथग् रसः, खलात् मूत्रपुरीषादयो मलाः प्रादुर्भवन्ति, रसाच्छोणितं परिणमति, शोणितान्मांसं, मांसान्मेदः, मेदसोऽस्थीनि, अस्थिभ्यो मजानः, मज्जभ्यां शुक्रमिति / सर्व चैतत् श्लेष्मादिशुक्रान्तमशुचि भवति / तस्मादागुत्तरकारणाशुचित्वादशुचि शरीरमिति // टी-तद्यथा-कवलाहारो हीत्यादिनोत्तरकारणस्याशुचित्वमाचष्टे / कवलाहारो हि जनन्या ग्रस्तमात्र एव श्लेष्माशयं-कफस्थान प्राप्तः श्लेष्मणा द्रवतामापादितोऽत्य १'मनुचिन्त' इति ग-पाटः / 2 'अम्लीस्तोत्लाचि०' इति घ-पाठः। ३विभज्यते ' इति घ-पाठः / ४'मजा मज्जाभ्यां शुक्र' इति घ पाठः / 5 'शुचिभवाते ' इति घ-पाठः /