________________ 214 तत्वार्थाधिगमसूत्रम् [ अध्यायः 9 टी-शरीरव्यतिरेकेणेत्यादि / शरीरं पञ्चप्रकारं औदारिकादि तस्माच्छरीरपञ्चकादन्योऽहम् / कुत एतत् ? यस्मादिन्द्रियग्राचं शरीरं, अतीन्द्रियोऽहं, न चक्षुरादिना करणेन ग्रहीतुं शक्यः / इन्द्रियग्राह्यं शरीरमित्यव्यापिनी भेदप्रतिपत्तिरित्याह / भा०-अनित्यं शरीरं नित्योऽहम्, अज्ञ शरीरं ज्ञोऽहम्, आद्यन्तवच्छरीरं अनाद्यन्तोऽहम्, बहूनि च मे शरीरशतसहस्राणि अतीतानि संसारे परिभ्रमतः स एवायमहमन्यस्तेभ्य इत्यनुचिन्तयेत् / एवं ह्यस्य चिन्तयतः शरीरप्रतिबन्धो न भवतीति / अन्यच्च शरीरान्नित्योऽहमिति श्रेयसे घटत इत्यन्यस्वानुप्रेक्षा // 5 // टी-अनित्यं शरीरमित्यादि / पुद्गलात्मकमौदारिकादि शरीरं, पुद्गलाश्च विशरारुत्वाच्छरीरसन्निवेशविशेषं विहाय स्कन्धान्तरेण परमाणुरूपेण वा वर्तन्ते, न जातुचिदात्मा असङ्खयेयप्रदेशसन्निवेशं परित्यज्य ज्ञानदर्शनरूपं वो वृत्तो वर्तते वर्तिष्यते वा / ततश्च नित्यत्वमात्मनः। नेनु परिणामानित्यतया आत्मा अनित्योऽपीष्यते इत्यपरितुष्यन्नाह-अझं शरीरं ज्ञोऽहमिति / न कदाचित् पुद्गला ज्ञानाद्युपयोगरूपेण परिणामिनो भवन्ति / आत्मा तु परिणामी। ज्ञानाद्युपयोगपरिणामेन अतोऽन्यत्वं, तथा आधन्तवच्छरीरं अनाधन्तोऽहम् / आदिः-आरम्भकालः अन्तो-विनाशकाल:, तो यस्य स्तस्तद् आद्यन्तवत् / आदिरौदारिकवैक्रिया-ऽऽहारकाणां सुज्ञानः / तैजस-कार्मणयोः सत्यप्यनादिसम्बन्धे सन्तत्याऽनादित्वमिष्ट, पर्यायाङ्गीकारेण तु तैजसकार्मणपुद्गलाः परिशटन्ति लगन्ति च / यदाऽऽश्लेषमायान्ति तैजसकार्मणतया तदा आदिः, यदा परिशटन्ति तदाऽन्तः। नैवमात्मनः कदाचिदादिरन्तो वा विद्यते, आरभ्यारम्भकभावाभावात् / ज्ञानरूपेण दर्शनरूपेण वा (दर्शयति) अविच्छिन्नत्वात् तत्स्वरूपत्वाच्च सर्वदैवानाद्यन्तोऽहं इतश्चान्यत्वम् / बहूनि च मे शरीरशतसहस्राणीत्यादि / न हि प्राक्तनजन्मशरीराणि इदानीन्तनजन्मशरीराणि भवन्ति / संसारे परिभ्रमतः / अनादौ च संसारे परिपतो बहून्यतीतानि शरीरकाणि, नाह तेषां अधुनातनशरीरेऽन्वयोऽस्ति स्वल्पोऽपि / अहं पुनः स एव येनोपभुक्तान्यतीतानि शरीरकामहस्राणीत्यतोहमन्यस्तेभ्य इत्यनुचिन्तयेत् / अन्यत्वे च सति विच्छिन्नशरीरममत्वो निशेयसायैव यतते इत्यन्यत्वानुप्रेक्षा॥ अशुचित्वानुप्रेक्षानिर्धारणायाह १'चावृत्तो' इति ग-पाठः। 2 'न च' इति घ-पाठः। 3 परिणमितोऽतोऽन्यत्वं' इति सु-पाठः / 4 'आरम्भारभ्यकाभावात् ' इति ङ-पाठः / 5 'त्वात्सर्व' इति कु-पाठः।