________________ सूत्र 7 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् यादृशः संसारः, बन्दा वधबन्धदंशमशकशीतोष्णादयः त एवारामो यत्र संसारे / आरामो हि नोनाजातीयतरुसमूहः / आराम इवारामो द्वन्द्वानां सङ्घातः / कष्टं-कृच्छ्रे दुःखं गहने स्वभावः-स्वरूपं यस्य संसारस्येत्येवं चिन्तयेत् / ततः संसारभयानुमिनस्य जातारतेः सांसारिकसुखजिहासालक्षणो भवति निर्वेद इत्येषा संसारानुप्रेक्षा // एकत्वभावनास्वरूपभावनायाह भा०—एक एवाहं, न मे कश्चित् स्वः परो वा विद्यते / एक एवाहं जाये। एक एव म्रिये // टी-एक एवाहमित्यादि / एक एवाहं न जातुचित् ससहायो जाये प्रिये वाजननं मरणं वाऽनुभवामीति / यमलकयोरपि क्रमेणैव निःसरणम् / यच्च जन्मनि दुःखं भरणे वा तदेक एवा(हम)नुभवामीत्यर्थः / न तस्य मदीयस्याशर्मणोऽनुभवे कश्चित् सहायोऽस्ति / ततश्च सहजन्मानः सहमरणाश्च निगोदजीवा अपि न व्यभिचारयन्त्यमुमर्थमेक एवाई जाये एक एवाहं म्रिये इति // एतदेव भाष्येण दर्शयति भा०-न में कश्चित् स्वजनसंज्ञः परजनसंज्ञो वा व्याधि-जरा-मरणादीनि दुःखान्यपहरति प्रत्यंशहारी वा भवति / एक एवाहं स्वकृतकर्मफलमनुभवामीति चिन्तयेत् / एवं यस्य चिन्तयतः स्वजनसंज्ञकेषु स्नेहानुरागप्रतिबन्धो न भवति परसंज्ञकेषु च द्वेषानुवन्धः। ततो निःसङ्गतामभ्युपगतो मोक्षायैव घटत इत्येकत्वानुप्रेक्षा // 4 // टरी-न मे कश्चिदित्यादि / मत्तः सकलं दुःखमाक्षिप्यात्मनि निधत्ते इत्येतम, प्रत्यंशो विभागो वण्टनम् / न च सम्भूय स्वजनाः परजना वा मयि दुःखमुत्पन विभाजयन्तीत्यर्थः / ततश्चैक एवाहं स्वकृतस्य कर्मणः फलमनुभवामीति चिन्तयेत् / स्नेहानुरागप्रतिवन्ध इति / जनन्यादिष्वकामविषये स्नेहः, भार्यायां काम विषयोऽनुरागः, प्रतिबन्धः-आसक्तिन भवति / परसंज्ञकेषु देषानुबन्धः। पर एवायं न कदाचिदात्मीयो भवति किमनेन ममादृतेनेति / ततः स्वजनेषु परजनेषु च निःसङ्गतामुपगतो मोक्षायेव यतेत (घटेत 1) इत्येकत्वानुप्रेक्षा // अन्यत्वभावनाविभावनायाह भा०-शरीरव्यतिरेकेणात्मानमनुचिन्तयेत्-अन्यच्छरीरमन्योऽहम् , ऐन्द्रिपकं शरीरम्, अतीन्द्रियोऽहम् /