________________ 212 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 9 भा०–नहि स्वजनपरजनयोव्यवस्था विद्यते / माता हि भूत्वा भगिनी भार्या दुहिता च भवति / भगिनी भूत्वा माता भार्या दुहिता वजन परजन च भवति। भार्या भूत्वा भगिनी दुहिता माता च भवति / दुहिता . भूत्वा माता भगिनी भार्या च भवति / तथा पिता भूत्वा भ्राता पुत्रः पौत्रश्च भवति / भ्राता भूत्वा पिता पुत्रः पौत्रश्च भवति / पुत्रो भूत्वा [ शत्रुभेवति ] पिता भ्राता पौत्रश्च भवति / पौत्रो भूत्वा पिता (भ्राता) पुत्रश्च भवति / भर्ता भूत्वा दासो भवति / दासो भूत्वा भर्ता भवति / मित्रं भूत्वा शत्रुर्भवति / शत्रुर्भूत्वा मित्रं भवति / पुमान् भूत्वा स्त्री भवति नपुंसक च / स्त्री भूत्वा पुमान् नपुंसकं च भवति / नपुंसकं भूत्वा स्त्री पुमांश्च भवतीति // टी-नहि स्वजनपरजनयोर्व्यवस्था विद्यत इति / न नित्यमेव कश्चित् स्वजनः परजनो वाऽस्ति / स्वजनो भूत्वा कर्मानुभावात् परजनो भवति / परजनश्च भूत्वा स्वजनो भवति इयमव्यवस्थैव संसारे न व्यवस्थाऽस्तीति / माता हि भूत्वेत्यादिना तामेवाव्यवस्था प्रपञ्चयति // भा०-एवं चतुरशीतियोनिप्रमुखशतसहस्रेषु राग-द्वेष-मोहाभिभूतैर्जन्तुभिरभिनिवृत्तविषयतृष्णैरन्योन्यभक्षणाभिघातबन्धाभियोगाक्रोशादिजनितानितीब्राणि दुःखानि प्राप्यन्ते / अहो द्वन्द्वारामः कष्टस्वभावः संसार इति चिन्तयेत् / एवं ह्यस्य चिन्तयतः संसारभयाद्विग्नस्य निर्वेदो भवति / निर्विण्णश्च संसारप्रहाणाय घटत इति संसारानुप्रेक्षा // 3 // टी०–एवं चतुरशीतियोन्यादिर्यत्र सम्मूर्च्छति गर्भस्थानं वा तत्र विभागो भवति परस्परं केनचिद् वैलक्षण्येन दृश्येनादृश्येन वा सर्वज्ञवचनग्राह्येण / तत्र पृथिवी८४००००० जल-ज्वलन-समीरणेषु प्रत्येकं सप्त सप्त लक्षाः, दश लक्षाः प्रत्येकवनस्पतिषु, योनयः निगोदजीवेषु च चतुर्दशलक्षाः, द्वि त्रि-चतुरिन्द्रियेषु प्रत्येकं द्वे द्वे लक्षे, तिये. नारक-देवेषु प्रत्येकं चतस्रश्चतस्रो लक्षाः, मनुजेषु चतुर्दश लक्षाः, एवं चतुरशीतिलेक्षा योनीनां, चतुरशीतियोनिप्रभुखानि शतसहस्राणि / प्रमुखशब्दः प्रधानव चनः / चतुरशीतियोनिप्रधानानि यानि शतसहस्राणि तेषु, नान्येष्वित्यर्थः / रागो माया-लोभौ द्वेषः क्रोध-मानौ मिथ्यात्वहास्यादिर्मोहः, एभिरभिभूतैः-वशीकृतैर्जन्मवद्भिः अनिवृत्ता विषयतृष्णा येषां तैरविच्छिन्नविषयतरैरन्योन्यं-परस्परं भक्षणं पृथुरोमादीनामिव / तथा वधः (अभिघातः १)-मारणं बन्धः-संयमनं अभियोगः-अभ्याख्यानं ( आ. क्रोश:-अप्रियवचनं, एभिरन्योन्यभक्षणादिभिनितानि तीवाणि-प्रकृष्टानि दुःखानि प्राप्यन्ते-अनुभूयन्ते / अहो इति विस्मये न, ) आः खल्वेवंविधदुःखभाजनमन्यदस्ति 1 पौर्वापर्ये विपरीतत्वं घ-पुस्तके / 2 * भवति' इति घ-पाठः / 3 ' मवस्यैव ' इति च-पाठः /