________________ 211 अशरणभावनाया: सूत्र 7 } . स्वोपज्ञभाष्य-टीकालङ्कृतम् - एवमित्यादिना दार्टान्तिकमर्थं समीकरोति / जन्म-योनेनिःसरणं गर्भाधानं वा, ____ उभयं दुःखहेतुस्तत्राकुलः पिण्डकवद् योनिमुखेन पीडयमानः कृच्छेण वनाया निःसरति / उदरस्थोऽपि पिण्डितावयवत्वात् पुरीतन्मूत्रपुरीषाकुलितः स्वरूपम् कतिचिन्मासान् दुःखेन गमयति / निलुंठितस्तु योनेर्जरसा ग्रस्यत एव, प्रतिक्षणमवस्थान्तरापत्तेः / मरणमप्यावीचिकमवश्यंभाव्येव जन्मवतः / व्याधयो ज्वरा-ऽतीसार-कास-श्वास-कुष्ठप्रभृतयः / प्रियः-इष्टो जनस्तेन सह विप्रयोगः। तद्विपरीतोप्रियस्तेन च सं(प्र)योगः / ईप्सितमाप्तुमिष्टं तस्याऽलाभः / दौर्मनस्यं मानसमेव दुःखम् / अतः स्वमरणमल्पायुषत्वादुपक्रमसन्निधानाद् वा सकलायुषः परिक्षयाद वाऽवश्यंतया प्राणिनां संसारे भवति / आदिग्रहणाद वधबन्धपरिक्लेशशीतोष्णदंशमशकद्वन्द्वाभिभवः // भा०-एवं ह्यस्य चिन्तयतो नित्यमशरणोऽस्मीति नित्योद्विग्नस्य सांसारिकेषु भावेष्वनभिष्वङ्गो भवति / अर्हच्छासनोक्त एव विधौ घरते, तद्धि परं शरणमित्यशरणानुप्रेक्षा // 2 // टी०–एवं जन्मनाऽऽदितः समुद्भूतेन दुःखेनालीढस्य जन्मवतः शरणं नास्तीत्यालोचयतः सर्वदाऽहमशरण इति नित्यमेव भीतस्य सांसारिकेषु भावेषु मनुजसुरसुखेषु हस्त्यश्वादिषु हिरण्यसुवर्णादिषु च नाभिष्वङ्गो-न प्रीतिर्भवतीति परमषिप्रणीतशासनाभिहिते एव विधौ ज्ञानचरणादिलक्षणे घटते-प्रवर्तते इति / जन्मजरामरणभयपरिष्वक्तस्य च यसात् तदेव परं-प्रकृष्टं शरणमित्यशरणानुप्रेक्षा // संसारानुप्रेक्षानिरूपणाय प्रक्रमते भा०-अनादौ संसारे नरक-तिर्यग्यानि-मनुष्या-ऽमरभवग्रहणेषु चक्रवत परिवर्तमानस्य जन्तोः सर्व एव जन्तवः स्वजनाः परजना वा // टी०- अनादौ संसारे इत्यादि / अविद्यमान आदिर्यस्यासावनादिर्नाभूत उत्पन्नो नाप्युत्पादितः केनचिदिति / संसरणम् इतश्वेतश्च गमनं संसारस्तस्य चातुर्विध्यं नरकादिभेदेन / भवशब्दो जन्मवचनः / नरकादिजन्मनां ग्रहणानि-उपादानानि तेषु चक्रवत् तत्रैव परिभ्रमतो जन्मवतः सर्व एव प्राणिनः क्षिति-जल-दहन-पवन-वनस्पतिशरीराः द्वि-त्रि-चतु:पश्चेन्द्रियलक्षणाः स्वजनकाः सन्तो यदा यौनेन सम्बन्धेन स्वाम्यादिसम्बन्धेन वा सम्बन्धमन्वभूवननुभवन्त्यनुभविष्यन्ति वा तदा स्वजनाः, स्वाम्यादयो वा यदा न सम्बद्धास्तदा परजनाः / एतदेव दर्शयति 1 'नाद्यसकला' इति च-पाठः। 2 'तद् विपरीतं' इति ग-पाटः। 3 'स्वजनः परजनो वा' इति घदी-पाठः।