________________ 210 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः९ पर्यन्ते परित्यक्तसन्निवेशविशेषं विशीर्यत इत्यनित्यमेव परिणामानित्यतया / एवमनागतमेवानुप्रेक्षमाणस्य तत्राभिष्वङ्गः-स्नेहप्रतिबन्धो न भवति / तत्र स्नेहाभ्यञ्जनोद्वर्तनमर्दनमानविभूषादिषु निःस्पृहस्य धर्मध्यानादिष्वासङ्गो भवति / आगमेऽप्यभिहितम्-'"जं पि मे इमं सरीरगं इहं कंतं पियं मणुणं" इत्यादि / शय्या-प्रतिश्रयः संस्तरणपट्टकादिः संस्ता. रकफलकादिर्वा / आसनं-गोमयपीठकादि / वस्त्रं-कल्प-चोलपट्टकादि। प्रतिदिवसं रजसा विपरिणम्यमानं सर्वप्रकारं स्वां सन्निवेशावस्थां विहाय विशरारुतां प्रतिपद्यत इत्यनित्यभावनाभ्यासान तेषु ममत्वं भवति, केवलं धर्मसाधन मिति ग्रहणम् / सर्वसंयोगाश्चानित्या इति / यावन्तः संयोगा-मम सम्बन्धाः केचिद् बाह्याभ्यन्तरैव्यैः शय्याशरीरादिभिस्ते घकाण्डभङ्गुरा इत्यवश्यं चादिमता संयोगेन वियोगान्तेन भवितव्यम् / स्वभावः खल्वयं बाह्याभ्यन्तराणां द्रव्याणामित्येवं चिन्तयेत् / कस्माद्धेतोः ? यसाच्चैवं चिन्तयतस्तेष्वभिष्वङ्गो न भवति स्नेहप्रतिबन्धः। एतदेवाह-मा भून्मे तछियोगजं दुःखमित्यादि / तैर्वियोगो बाह्याभ्यन्तरैव्यैः, तद्वियोगे जातं दुःखं शारीरं मानसं वा / तन्मा भूदित्यनागतमेवेत्यनित्यानुप्रेक्षा // अधुनाऽशरणानुप्रेक्षाप्रतिपादनायाहभा०-यथा निराश्रये जनविरहिते धनस्थलीपृष्ठे बलवता क्षुत्परिगतेनामिपैषिणा सिंहेनाभ्याहतस्य मृगशिशोः शरणं न विद्यते / एवं जन्म-जरा-मरणव्याधि-प्रियविप्रयोगा-ऽप्रियसंप्रयोगे-प्सितालाभ-दारिद्य-दौभाग्य-दौमेनस्य-मरणादिसमुत्थेन दुःखेनाभ्याहतस्य जन्तोः संसारे शरणं न विद्यत इति चिन्तयेत्। टी.-यथा निराश्रये इत्यादि। यथेति दृष्टान्तप्रदर्शनम् / निराश्रये इति गुप्तिस्थानशून्ये / जनविरहिते इति निवारकाभावप्रदर्शनम् / यत्र तु जनस्तत्र कदाचित् कश्चित् कारुणिको निवारयत्यपि / वनस्थलीपृष्ठ इति / वनशब्देन वृक्षा एव गृह्यन्ते, न पुनर्जालिकॅटादिगुप्तिस्थानम् / बलवतेति / दुर्बलेनाभिभूतः कदाचित् प्रणश्यत्यपि / बलवानपि यदि धाणो भवति ततो मन्दादरत्वान्नानुगच्छेदित्याह-क्षुत्परिगतेन आमिषैषिणेति / सिंहेन-मृगराजेन अभ्याहतस्य-अभिभूतस्य / मृगशिशोरिति जीर्णमृगः कदाचिदनुभूतकूटशतवागुरानिःसरणः प्रगल्भत्वात् प्रणश्येदपि, न पुनः शावः / शरण-भयापहारि स्थानं तस्य चाभावः। 1 'ततश्च' इति ग-पाठः। 2 भगवत्यां (श. 2, उ. 1, सू. 94) 127 तमे पत्रा। 2 लाया यदपि मे इदं शरीरकं दृष्टं कान्तं प्रियं मनोज्ञम् / मे सम्बन्धा' इति ग-पाठः। 5 ‘र्जालिझाटाविगुप्ति' इति ग-पाठः।