________________ सूत्र 7 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 209 लोचनपूर्वरतस्मृतिवृष्यरसकामकथनेभ्यः संसक्तादावमथाच विरतयो भावना ब्रह्मणः, इष्टाश्च शुभा ये स्पर्शादयः, शरीरविभूषा. च, तत्रानभिनन्दत्वं-तत्प्राप्तावप्यपरितुष्टिर्मनसोऽप्रसादः-अरक्तद्विष्टतेत्येवं ब्रह्मचर्य जायते इति / तदेवं क्षमया क्रोधं निहन्यात, निहतक्रोधो नीचैर्वृत्त्यनुत्सेकाभ्यां मार्दवं धारयेत् , परित्यक्तमदस्थान आर्जवं भावयेत् , भावदोषवर्जनेन निगूढदोषां मायामार्जवेन प्रेकटीकृत्य शौचमाचरेत् अलोभसंश्रयेण, लोभाशौचं अलोभशौचेन . . संशोध्य शुद्धात्मा सत्यं ब्रूयात् , सत्यभाषी सप्तदशविधं संयममनुतिष्ठेत, ब्रह्मचर्यस्य परि पार संयतात्मा शेषाशयविशोधनार्थ तपश्चरेत, ततो बाह्यान्यपि धर्मसाधनानि पणताया जाना त्यजेत . विद्यमानेष्वपि कायवाङ्मानसेषु धर्मोपकरणेषु स्वजनसुहृत्सम्बन्धिषु च निःस्पृहत्वानिर्ममत्वाख्यमाकिश्चन्यं भापयेत् / सत्याकिश्चन्ये ब्रह्मचर्य परिपूर्ण भवतीति // 6 // . एवं परमविशुद्धिलक्षणे धर्मे व्यवस्थितः पुनरपि आत्मगुणदोषजुगुप्सार्थ जगद् द्वादशभिः स्वतत्त्वैविभज्यानुचिन्तयेदित्याह .. सूत्रम्-अनित्या-ऽशरण-संसारै कत्वा-ऽन्यत्वा- शुचिद्वादश भावनाः त्वा-ऽऽत्रव-संवर-निर्जरा-लोक-बोधिदुर्लभ-धर्म स्वाख्यातंत्वानुचिन्तनमनुप्रेक्षाः // 9-7 // टी--अपरे पठन्ति-अनुप्रेक्षा इति अनुप्रेक्षितव्या इत्यर्थः। अपरेऽनुप्रेक्षाशब्दमेकवचनान्तमधीयते, तत्रार्थोऽनित्यादिचिन्तनमनुप्रक्षाच्यते, बहुवचनान्ते त्वनित्यादिचिन्तनान्यनुप्रेक्षा इति / भा०–एता द्वादशानुप्रेक्षाः। तत्र बाह्याभ्यन्तराणि शरीर-शय्या-ऽऽसनवस्त्रादीनि द्रव्याणि सर्वसंयोगाश्चानित्या इत्यनुचिन्तयेत् / एवं ह्यस्य चिन्तयतस्तेष्वभिष्वङ्गो न भवति / मा भून्मे तछियोगजं दुःखमित्यनित्यानुप्रेक्षा // 1 // टी-एता द्वादशानुप्रेक्षा इत्यादि / एता अनित्यादिकाः परामृश्यन्ते। द्वादशेति द्वादशैव, नाधिका न्यूना वा / अनुप्रेक्षणमनुप्रेक्षा / अनुप्रेक्ष्यन्ते अनुचिन्त्यन्त इति वाऽनुप्रेक्षाः। तत्र-तास्वनित्यभावना तावद् भण्यत / तत्रानित्यादया धर्मस्वाख्यातान्ताः कृतद्वन्द्वाः विहितभावप्रत्यया अनुचिन्तनशब्देन सह कृतषष्ठासमासास्तत्पुरुषसमानाधिकरणानुप्रेक्षाशब्देन सह सम्प्रतिपद्यन्ते / अभ्यन्तरं शरीरद्रव्यं जीवप्रदशेयोप्तत्वात् बाह्यानि शय्या-ऽऽसन-वस्खा दीनि / आदिग्रहणादोघिकोपग्रहिकोपधेः समस्तस्य ग्रहणम् / तत्र अनित्यभावनाया ' शरीरं तावत् जन्मनः प्रभृति पूर्वावस्थां जहदुत्तरावस्थामास्कन्दत् प्रतिक्षस्वरूपम् णमन्यथाऽन्यथा च भवजराजजेरितसकलावयवं पुद्गलजालविरचनामात्रं 'वसत्वाच' इति ड-च-पाठः। २'प्रकृत्य' हात ड-पाठः। ३'ततत्त्वान' इति घ-पाठः।