________________ 207 सूत्र 6 ] . वोपज्ञभाष्य-टीकालङ्कृतम् .. एवं तपः प्रकीर्णकमभिधाय त्यागाभिधित्सया प्राह भा०-बाह्याभ्यन्तरोपधिशरीरानपानाद्याश्रयो भावदोषपरित्यागस्त्यांगः / टी-बाह्याभ्यन्तरोपधिशरीरानपानादिराश्रयो यस्य तस्यैवंविधस्य भावदोषस्य परित्यागस्त्यागोऽभिधीयते / न हि निरालम्बनो भावदोषः समस्ति / यथा शुभ तपसा नादत्ते प्राक्तनं च त्यजत्येवं बाह्योपकरणादित्यागोऽपि संवृणोत्यास्रवद्वाराणि / तत्रोपकरणं बाह्यं रजोहरणपात्रादि स्थविरजिनकल्पयोग्योपधिः दुष्टवाङ्मनसः अभ्यन्तरं क्रोधादिश्चातिदुस्त्यज उपधिः / शरीरं वाऽभ्यन्तरमन्नपानं च बाह्यम् / आदिग्रहणादौपग्रहिकं घ बहिनिषद्यादण्डकादि आश्रयभूतं भावदोषस्य भवति / भावदोषो मूर्छा स्नेहः गाादिः / संयमसाधनं रजोहरणादीत्येवं धारयति, न पुना रागादियुक्तः शोभाद्यर्थम् / एवंविधस्य भावदोषस्य परित्यागः सर्वप्रकारस्त्याग उच्यते // सम्प्रति आकिश्चन्यस्वरूपनिरूपणायाहभा०-शरीरधर्मोपकरणादिषु निर्ममत्वमाकिश्चन्यम् // 9 // टी-शरीरेति / उक्तेन न्यायेन भावदोषत्यागं कृत्वा बायोपकरणं रजोहरणपात्राघुपभुञ्जानोऽप्यकिञ्चन एव भवति / शरीरमाश्रयमात्रमात्मनो यदा च तत्र त्यागाहेमशुचित्वङ्मांसास्थिपञ्जरं केवलं धर्मसाधनचेष्टायाः संयमभरक्षमायाः साहायके वर्तते / तदिदं शकटाक्षोपाञ्जनवदाहारादिनोपग्राह्यम् / न त्ववयवसन्निवेशशोभार्थमिति / निर्ममत्वमाकिश्चन्यं धर्मोपकरणं रजोहत्यादि प्रमाजेनादिकार्यप्रसाधनाय व्याप्रियत इति संयमोपकरणम् / अत्रापि निर्ममत्वमाकिश्चन्यमिति // ब्रह्मचर्यस्वरूपनिर्दिधारयिषया प्राह भा०-व्रतपरिपालनाय ज्ञानाभिवृद्धये कषायपरिपाकाय च गुरुकुलवासो ब्रह्मचर्यम् // टी-व्रतपरिपालनायेत्यादि / आकिञ्चन्ये व्यवस्थितो प्रमचर्य परिपालयेत् / तथ ब्रह्मचर्य गुरुकुलवासलक्षणम् / गुरुकुलवासो ब्रह्मचर्यमिति / बृहत्त्वादात्मा ब्रह्म [आवृत्तिरात्मनि प्रमचर्यमाख्यातम् ] ब्रह्मणि चरणमात्मारामत्वमरक्तद्विष्टात्मनि व्यवस्थानम् / अब्रह्मणश्च विनिवृत्तिव्रतं मैथुनवर्जप्राधान्येन / तत्परिपालनाय गुरुकुले वस्तव्यम् / यद्यपि मनोज्ञामनोज्ञ 'त्यागधर्मः' इति ग-पाठः / 2 'मनसमभ्यन्तरे' इति ग-पाठः / 3 'शोभार्थी प्रति' इति च-पाठः / 4 'रजोगुप्त्यादि' इति छ-पाठः / 5 'तस्य प्रतिपा०' इति ग-पाठः।