________________ 206 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 9 तथा पानकस्य, दायिका च एलुकस्यान्तः पादमेक विन्यस्थापरं बहिर्काएकमासिक्याः ! वस्थाप्य तां दत्तिं यदि ददाति ततः कल्पते / तथा आदिमध्यावसानस्वरूपम् गोचरत्रयहीडी पेडा अधपेडा गोमूत्रिका पतङ्गवीथिः संबुक्कवृत्ता गत्वा प्रत्यागता चेति षड्विधगोचरभूमिचारी। एवंविधतपश्चारीति यत्र ज्ञायते तत्रैकरात्रं कल्पते वासः। यत्र न ज्ञायते तत्रैकरात्रं वाऽहोरात्रद्वयं वा वस्तु कल्पते, न परतः / याचनप्रच्छनाऽनुज्ञापनप्रश्नव्याकरणभाषी आगमनविकटगृहकवृक्षमलोपाश्रयत्रयपरिभोगकारी पृथिवीकाष्ठयथास्तीर्णसंस्तारकत्रयशायी कश्चित् तदध्यासिते प्रतिश्रये अग्नि लगयेत् ततो दाहभयान्ने निष्कामेत् कण्टकादिकं पादलग्नमक्षितो वा कणुकोदि नो निहरेत् / जलस्थलादिषु यत्रास्तमेति तपनस्ततः स्थानादेकमपि पदं न प्रयाति / विगतजीवेनापि पानकेन हस्तपादादिप्रक्षालनं न करोति / सन्मुखमापततो दुष्टाश्वहस्त्यादीत्या पदमप्येकं पचान्नापसपेत् / एवमादिभिर्नियमविशेषैर्विचित्रा एषा मासिकी प्रतिमेति। द्विमासप्रतिमामारूढस्यान्धसो द्वे दत्ती पानकस्य च, शेषचर्या पूर्ववत् / एवमुत्तरास्वपि यावन्तो मासास्तावत्य एव दत्तयोऽपि यावत् सप्तमासिक्या सप्त दक्षयः / शेषं प्रथमप्रतिमावद्विधानम् / प्रथमसप्तरात्रिकी प्रतिमामारूढस्य चतुर्थभक्त मपानकं ग्रामादेवहिरुत्तानपार्श्वशायिनो निषण्णस्य वा कल्पते स्थातुं सप्तरात्रिक्याः - दिव्यमानुषतैर्यग्योनानुपसर्गान् सम्यक्महमानस्येत्यन्यत् पूर्ववत् / द्वितीयां सप्तरात्रिकी प्रतिमामारूढस्य तदेव चतुर्थभक्तमपानकं च स्थानं त्वस्य दण्डायतं लगडशायिता उत्कुटुकासनं वा। तृतीयामपि सप्तरात्रिकी प्रतिमामारूढस्य चतुर्थभक्तमपानकं च, स्थानं पुनरस्य गोदोहिका वीरासनं आम्रकुन्जिता चेति। अहोरात्रिकी प्रतिपन्नस्य प्रतिमा षष्ठभक्तमपानकं बहिामादेश्चतुरङ्गुलान्तरौ चरणौ विधाय लम्बितबाहोः कायोत्सर्गावस्थानमेकं, शेषं पूर्ववत् / एकरात्रिकी प्रतिमां कुर्वतोऽष्टमभक्तमपानकं ग्रामादेबहिरीपत् प्राग्भारगतेन कायेनैकपुद्गलनिरुद्धदृष्टिरनिमिषनयनो यथाप्रणिहितगात्रः सुगुप्तेन्द्रियग्रामः कायोत्सर्गावस्थायी दिव्यमानुषतैरश्चानुपसर्गान् सम्यक तितिक्षते यस्तस्य भवतीति सप्तचतुर्दशैकविंशतिरात्रिक्यस्तिस्र इति / नेदं पारमॅपप्रवचनानुसारि भाष्यं, किं तर्हि ? , प्रमत्तगीतमेतत् / वाचको हि पूर्ववित् कथमेवंविधमार्षविसंवादि निर्वभाग्यपाठपरामर्शः ध्नीयात ? सूत्रानवबोधादुपजातभ्रान्तिना केनापि रचितमेतद् वचनकम्दोच्चा सत्तराईदिया तइया सत्तराईदिया। द्वितीया सप्तरात्रिकी तृतीया सप्तरात्रिकीति सूत्रनिर्भेदः / द्वे सप्तरात्रे त्रीणीति सप्तरात्राणीति / सूत्रनिर्भेदं कृत्वा पठितमज्ञेन सप्तचतुर्दशैकविंशतिरात्रिक्यस्तिस्र इति // १'नातिकामेत्' इति ग-पाठः। 2 'कादिना' इति ङ-पाठः। 3 'दण्डयतः' इति ङ-पाठः। 4 'उत्कुटुंकस्थान' इति -पाठः। 5 हिकापुनारा' इति ङ-पाठः / 6 'निरूढदृष्टि' इति च-पाठः। 7 'मर्षवचना' इति ङ-पाठः। 8 'ब्रूयात्' इति ङ-पाठः। 9 "द्विसप्त' इति ग-पाठः /