________________ 205 सूत्रं 6] . स्वोपनभाष्य-टीकालङ्कृतम् - भद्रोत्तररचना / द्वादशचतुर्दशषोडशाष्टादशविंशतिभक्तानि, अष्टादशविंशतिद्वादशचतुर्दशषोडशभक्तानि, चतुर्दशषोडशाष्टादशविंशति द्वादशभक्तानि, विंशतिद्वादशचतुर्दशषोडशाष्टादशभक्तानि, षोडशाष्टादशविंशतिद्वादशचतुर्दशभक्तानि दिनानि पञ्चत्रिंशद्भद्रोतरतपसि / तथाऽपरं तपः आचाम्लवर्धमानम् / अलवणारनालौदनलक्षणमाचाम्लं तद् वर्धमान पत्र तपसि तदाचाम्लवर्धमानं तस्य प्ररूपणा-प्राक तावदाचाम्लं ततश्चतुर्थभक्तं पुन आचाम्ले पुनश्चतुर्थभक्तं पुनस्त्रीण्याचाम्लानि पुनश्चतुर्थभक्तं चत्वार्याचाम्लानि पुनश्चतुर्थभक्तं पश्चाचाम्लानि पुनश्चतुर्थभक्तं एवमेकैकमाचाम्लं वर्धयता चतुर्थभक्तं च विदधता तोवद् वर्धयितव्यमाचाम्लं यावदाचाम्लशतं पूर्ण पर्यन्ते च चतुर्थभक्तं कालपरिमाणमस्य चतुर्दश वर्षाणि मासत्रयं विंशतिर्दिवसाश्चेति / सर्वतोभद्रमित्येवमादीत्पादिग्रहणादनेकप्रकारं तपोऽस्ति प्रकीर्णकमिति ज्ञापयतीति पारमर्ष एव प्रसिद्धं प्रवचने // अथवाऽऽदिशब्दसङ्ग्रहीता द्वादश भिक्षुप्रतिमास्तद्दर्शनार्थमाह भा०–तथा बादश भिक्षुप्रतिमाः-मासिक्याद्याः आ सप्तमासिक्यः सप्त, सप्तचतुर्दशैकविंशतिरात्रिक्यस्तिस्रः, अहोरोत्रिकी, एकरात्रिकी चेति // 7 // टी०–तथा द्वादश भिक्षुपतिमा मासिक्याद्या इति / मासिकी आदिर्यासां ता मासिक्याद्याः। द्वादशेति इयत्तानिरूपणाय संख्या / भिक्षुरुद्गमोत्पादनैषणादिशुद्धभिक्षाशी। प्रतिमा प्रतिज्ञा। मासः प्रयोजनमस्या इति मासिकी / मासेन परिसमाप्तिमायावीत्यर्थः / आ सप्तमासिक्याः सप्तेति विभागं दर्शयति, द्वित्रिचतुःपञ्चषट्सप्तमासाख्याः। एवमेताः सप्त तथाऽपरास्तिस्रः प्रथमा सप्तरात्रिकी द्वितीया सप्तरात्रिकी तृतीया सप्तरात्रिकी चेति / एवमेता दश / अपरे द्वे अहोरात्रिकी एकरात्रिकी चेति / एवं द्वादश / तत्र मासिकी प्रतिमामारूढः साधुर्भोजनस्यैको देत्तिमात्ते / 1 भद्रोत्तरम् प्रवचनसारोद्धारे तु भद्रोत्तरं यथा 9/5/6 |9|56/718 | 6/7/8/9/5 8956 2 'तदेव' इति हु-पाठः। 3 'सप्तरात्रिक्याः तिस्रः' इति घ-पाठः / 4 'रात्रिकी रात्रिकी' इति घ-पाठः / ५'दत्तिकामा(१)' इति ङ-पाठः।