________________ सूत्रं 6 ] . 199 स्वोपज्ञभाष्य-टीकालङ्कृतम् सम्प्रति तपः प्रस्तावायातमुच्यते भा०–तपो द्विविधम् / तत् परस्ताद् (अ० 9, सू० 19-20) वक्ष्यते / प्रकीर्णकं चेदमनेकविधम् / ___टी०-तपो द्विविधमित्यादि / तपतीति तपः। कर्तर्यसुन वा। संयमात्मनः शेषाशयविशोधनार्थ बाह्याभ्यन्तरतपनं तपः। शरीरेन्द्रियतापनात् कर्मनिर्दहनाच तपः / अपर तपोलक्षणे आह-" विशेषेण कायमनस्तापविशेषात् तपः"। द्विविधमिति बाह्यमामतान्तरम् भ्यन्तरं वा (च)। बाह्यमिति बाह्यद्रव्यापेक्षत्वात् तीर्थिकगृहस्थादिकार्यत्वाच / आभ्यन्तरं त्वन्यतीथिकानभ्यस्तत्वादन्तःकरणव्यापारस्य प्राधान्याद् बाह्यद्रव्यानपेक्षत्वाच्च / अन्ये त्वाहुः--"परप्रत्यक्षं बाह्यम् / स्वप्रत्यक्षमाभ्यन्तरम्" / अथवा आतापनादिः कायक्लेशस्तपो बहिर्लक्ष्यत इति बाह्यम् / अनशनादिभ्यो[ वा तेभ्यो ऽपि च बहिस्तरां वर्तत इति तदुपलक्षितं बाह्यम् / नैवं प्रायश्चित्तादि / तत् परस्ताद-उपरिष्टाद् वक्ष्यते-अनशनावमौदार्यादि प्रायश्चित्तविनयादि च यथाक्रमम् / इह त्वशून्यार्थ पुरुषविशेषचरितं प्रकीर्णकं कालाहारादिनियतमनेकविधं तद्यथेत्यादिना दर्शयति भा०-तद्यथा-यववज्रमध्ये चन्द्रप्रतिमे रे / कनकरत्नमुक्तावल्यस्तिस्रः। सिंहविक्रीडिते हे // टी०-यववज्रमध्ये चन्द्रप्रतिमे वे इति। मध्यशब्दः प्रत्येकमभिसम्बध्यते-चवमध्या पेनमध्या च / चन्द्रप्रतिमे इति चन्द्रतुल्ये / यथा चन्द्रस्य कलावृद्धिःप्रतिदिनमेवं भिक्षाकालवृद्धिः / यथा चन्द्रस्य हानिः प्रतिदिनं तथा भिक्षाकवलहानिरिति / तत्र येवमध्या चन्द्रप्रतिमा शुक्ल प्रतिपदारम्भादमावास्यान्ता, प्रतिपद आरभ्य यथा चन्द्रस्य कलावृद्धिः (तथा भिक्षाकवलवृद्धिः), कवलवृद्धिर्वा यावत् पौर्णमास्यां पञ्चदश कवलाः / ततः कृष्णप्रतिपद्यपि पञ्चदशैव / एवमेकैककवलहान्या यावदमावास्यायामेकः कवल इत्येषा यवमध्या / वज्रमध्या कृष्णप्रतिपदारम्भा, कृष्णप्रतिपदि पश्चदशकवलानभ्यवहरति / तत्राप्येकैककपलहानिर्यावदमावास्यायामेकः कवलः, शुक्लप्रतिपद्यप्येक एवेति / द्वितीयादिष्वेकैकवृद्धिर्यावत् पौर्णमास्यां पञ्चदशेत्येषा वज्रमध्या / पक्ष्यति' इति ग-पाठः। २'तप्यतीति' इति ग-पाठः। ३'तापनं तपः' इति हु-पाठः। 4-5 'यवस्येव मध्ये स्थूलस्य पर्यन्तभागयोस्तु तनुकस्य मध्यं यस्याः सा यवमध्या, बज्रस्येव मध्ये तनुकस्व पर्यस्तयोस्तु स्थूलस्य मध्यं यस्याः सा वज्रमध्या' इति श्रीनेमिचन्द्रसूरिवरविरचितस्य प्रवचनसारोद्धारस्य भीसिद्धसेनसूरिकृतटीकायाँ (४४०तमे पत्राके)। ( यवमध्यो चन्द्रप्रतिमामुद्दिश्य प्रोक्तम् “एकैका वर्धयेद् भिक्षा, शुक्ले कृष्णे च हापयेत् / भुजीत नामावास्याया-मेष चान्द्रायणो विधिः // "