________________ 198 तत्त्वर्थाधिगमसूत्रम् [ अध्यायः 9 संयमोऽभिधीयते, स सप्तदशविध इति / स इत्थंरूपः संयमः सप्तदशप्रकारो भवति / तद्यथेत्यनेन तान् प्रकारानभिमुखीकरोति / पृथिवीकायिकसंयमः पृथिवी काय: __ शरीरं येषां ते पृथिवीकायाः। एवं चेन्मत्वर्थीयाभावः ? उच्यतेपृथ्वीकायिकशम्दस्य सिद्धिः यूथ श- पृथिवीकायशब्दस्य जातिशब्दत्वाद् भवत्येव मत्वर्थीयः कृष्णसर्पवल्मीक " इति यथा / अथवा ज्ञापकाद् भवन्ति “इधार्योः शत्रकृचिटणि" (पा० अ०३, पा० 2, सू० 130) इति। पृथिवीकायिकजातौ जाते; संयमः-सम्यग् यमः-उपरमो निवृत्तिरित्यर्थः। ये जीवाः पृथिवीशरीराः तेषां संघट्ट-परितापव्यापत्तीर्मनो-वाक्-कायैः कृतकारितानुमतिभिश्च परिहरतीत्यर्थः / एवं सर्वत्र यावत् पञ्चेन्द्रियसंयमः / भा०-प्रेक्ष्यसंयमः, उपेक्ष्यसंयमः, अपहृत्यसंयमः, प्रमृज्यसंयमः, कायसंयमः, वाक्संयमः, मनःसंयमः, उपकरणसंयम इति संयमो धर्मः // 6 // टी०-प्रेक्ष्येति / प्रेक्ष्यसंयम इत्यत्र क्रियापदाध्याहारः / प्रेक्ष्य क्रियामाचरन् संयमेन युज्यते / प्रेक्ष्येति चक्षुषा दृष्ट्वा स्थण्डिलं बीजजन्तुहरितादिरहितं पश्चादूर्ध्वनिषद्यात्वग्वतेनस्थानानि विदधीतेत्येवमाचरतः संयमो भवति / उपेक्ष्यसंयम इति व्यापार्याऽव्यापार्य चेत्यर्थः। एवं च संयमो भवति, साधून व्यापारयतःप्रवचनविहितासु क्रियासु संयम इति व्यापारणमेवोपेक्षणं गृहस्थान् स्वक्रियासु अव्यापारवत उपेक्षमाणस्य-औदासीन्यं भजतः संयमो भवति / अपहत्यसंयम इति / प्रोजय-परिवर्ण्य संयम लभते, वस्त्रपात्राद्यतिरिक्तमनुपकारकं चरणस्य वर्जयतः संयमलाभः, भक्तपानादि वा संसक्तं विधिना परित्यजत इति / प्रमृज्य संयम इति प्रेक्षिते स्थण्डिले रजोहत्या प्रमार्जनमनुविधाय स्थानादि कार्य पथि वा गच्छतः सचित्ताचित्तमिश्रपृथिवीकायरजोऽनुरञ्जितचरणस्य स्थण्डिलात् स्थण्डिलं सङ्क्रामतोऽस्थण्डिलाद् वा स्थण्डिलं प्रमृज्य चरणो संयमभाक्त्वमगायोंदिरहितेऽन्यथा त्वप्रमाजेयत ऐव संयमः। कायसंयम इति / धावन-वल्गन-प्लवनादिनिवृत्तिः, शुभक्रियासु च प्रवृत्तिः / वाक्संयमो हिंस्र-परुषादिनिवृत्तिः, शुभभाषायां च प्रवृत्तिः / मनःसंयमोऽभिद्रोहा-ऽभिमानेयो दिनिवृत्तिा, धर्मध्यानादिषु च प्रवृत्तिः। उपकरणसंयम इत्यजीवकायसंयमः / पुस्तकग्रहणे अजीवकार्यश्च पुस्तकादिः, तत्र यदा ग्रहणधारणशक्तिसम्पद्भाजोऽभूवन् हेतुः पुरुषाः दीर्घायुषश्च तदा नासीत् प्रयोजनं पुस्तकैः, दुष्षमानुभावात् तु परिहीनैर्ग्रहणधारणादिभिरस्ति नियुक्त्यादिपुस्तकग्रहणानुज्ञेत्येवं यथा कालमपेक्ष्यासंयमः संयमो वा भवतीत्येवं संयमो धर्मः॥ 1 'यत्रोपरमः' इति ग-पाठः / 2 'निषद्यत्वेन' इति ङ-पाठः। 3 'क्षणं ग्रहगं गृहस्था' इति ग-पाठः। 'एच' इति च-पाठः। 5 'कायसंयमच' इति ग-पाठः।