________________ सूत्रं 6 ] - स्त्रोपज्ञभाष्य-टीकालङ्कृतम् 195 वाऽऽर्जवम् / भावदोषवर्जनमित्यर्थः / भावदोपयुक्तो हि उपधिनिकृतिसंप्रयुक्त इहामुत्र चाशुभफलमकुशलं कर्मोपचिनोति / उपदिश्यमानमपि च श्रेयो न प्रतिपद्यते / तस्मादार्जवं धर्म इति // 3 // टी०-भावविशुद्धिरिति / भावाः-कायवामानसानि तेषां विशुद्धिः-अवक्रतशाध्यविरहितत्वम् , मनसोऽपि परिणामः कायवाचोरुपचर्यते तद्वृत्तानुवृत्तेः / मायावी तु सर्वाभिसन्धानपरतया सर्वाभिशङ्कनीयः केपटपटप्रच्छादितकायादि क्रियः सुहृदेऽपि द्रुह्यति / ___ तमेव योगानामविपर्यासं दर्शयति ऋजुभाव इत्यादिना। उपधिनिकृत्योर्विशेषःउपधिः छम छादनं स्वाभिसन्धेः निकारो निकृतिः परबुद्धिपराभवद्वारेण स्वाभिसन्धेः साफल्यापादनम् / अविसंवादनमविनाशनं अहिं मनमित्यनर्थान्तरम् / विनाशनं-परिणामान्तरापादनं विसंवादनमुच्यते / न विसंवादनमविसंवादनम्, परिणामान्तरानापादनमिति / तस्मादेवंविधमाजवं धर्मः॥ अधना लोमप्रतिपक्षं शौचलक्षणमाविर्भावयन्नाहभा०-अलाभः शौचलक्षणम् / शुचि भावः शुनिकर्म वा शौचम् // टी०-अलोभ इति / अलोभः शौचलक्षणम् / लोभस्तु भावतः परमार्थतोऽभिष्वङ्गश्चेतनाचेतनमिश्रवस्तु विषयः / लोभदोषाच क्रोधमानमायाहिंसाऽनृतस्तेयाऽब्रह्मपरिग्रहार्जनमलजालेनोपचीयमान आत्मा भवत्यशुचिः। तत्रालोमो-लोभाभावो न कचिन्ममत्वम् / अलोभस्य हि लोभदोपविनिर्मुक्तत्वानिर्भयत्वम् / ततः स्वपरहिताभिप्रवृत्तिरित्येतदेव शौचलक्षणं मुख्यमात्मनः / एतदेव स्पष्टयति भा०-भावविशुद्धिनिष्कल्मषता। धर्मसाधनमात्रास्वपि अनभिष्वङ्ग इत्यर्थः / अशुचिर्हि भावकल्मषसंयुक्त इहामुत्र चाशुभफलमकुशलं कर्मोपचिनोति, उपदिश्यमानमपि च श्रेयो न प्रतिपद्यते / तस्माच्छौचं धर्म इति // 4 // ___टी०-भावविशुद्धिर्ममत्वाभावो निःसङ्गताच, अपरद्रोहेणात्मार्थानुष्ठानं, निष्कल्म षता-निर्मलता भाव(धर्म?)साधनमात्राः-रजाहरण-मुखवत्रिका-चोलपट्टक-पात्रादिलक्षणाः तास्वप्यनभिष्वङ्गो विगतमूच्छे इत्यर्थः / यस्मादशुचिौवकल्मषसंयुक्तः, भावकल्मषं च लोभकपायस्तस्मात् तत्यागः / शोचं धर्म इति, शरीरमंहाव्रणप्रक्षालनादि द्रव्यशौचं, तच प्रासुकैपणीयेन जलादिना निर्लेपनिर्गन्धितापादनमागमोक्तेन विधिना कार्यमिति // 1 कपटप्रच्छादित' इति ङ-पाठः / 2 ' हिताहिताभि' इति -पाठः / 3 'महावर्ण' इति च-पाठः।