________________ 196 तन्वार्थाधिगमसूत्रम् [ अध्यायः 9 अवसरप्राप्तं पञ्चमं धर्माङ्ग निदिदिक्षुराह भा०-सत्यर्थे भवं वचः सत्यं, सद्भयो वा हितं सत्यम्, तदननृतम्, अपरूपमपिशनमनसभ्यमचपलमनाविलमविरलमसम्भ्रान्तं मधुरमभिजातमस. न्दिग्धं स्फुटमौदार्ययुक्तमग्राम्यपदार्थाभिव्याहारमसीभरमरागद्वेषयुक्तम् // टी-सन्-विद्यमानोऽर्थोऽनेकधर्मा तस्मिन् सत्यर्थे भवं, दिगादित्वात् यत्, यथाऽवस्थितार्थप्रतिपत्तिकारि सत्यम् // नन्वेवं गति लुब्धकाय मृगाख्यानमपि सत्यं स्यात् , किं (एवं ?) तर्हि सच्छब्दः प्रशंसार्थः / प्रशस्तोऽर्थः सन् न पापहेतुः तस्मिन् सति भवं सत्यं, पक्षान्तरसमाश्रयणं वा, सद्भयो वा हितं सत्यमिति, सन्तो जीवा एव गृह्यन्ते, हितशब्दोपादानात् / न ह्यजीवसम्बन्धि किञ्चिद्धितमस्ति, अतोऽप्रशस्तार्थव्यावृत्तिः / सामान्येन वा जीवाजीवेभ्यो हितम् / अनेकपर्यायकलापभाजोऽर्थाः / तेषां यथाऽवस्थित विवक्षितपर्यायप्रतिपादनं सत्यं, एतदेव तेभ्यो हितं यद् यथार्थप्रतिपादन मिति, तस्येदानी सत्यवचनस्य विशेषगुणानाचष्टे-तदनृतमिति / अनृतं-भूतनिह्नवः अभूतोद्भावनं विपरीतकटुकसावद्यादिवचनं, नानृतम् / ननु च सत्यपर्याय एवायम् / सत्यमेतत् , तथापि वक्ष्यमाणोत्तरगुणप्रोप्त्यर्थं पुनर्वचनम् / परुष-रूक्षं स्नेहरहितं (निष्ठुरं) परपीडाकारि / न परुषमपरुषम् / तत्राविनयेषु माध्यस्थ्यभावना, विनयेषु तु सौम्या वागपरुषम् , पिशुनं-प्रीतिविच्छेदकारि द्वयोर्वहूनां वा सत्यासत्यदोषाख्यानात् / न पिशुनमपिशुनम् / सभाहे-सभ्यं, न सभाहेमसभ्यं-सभासु विगर्हितं विदग्धसभासु गुह्यप्रकटनामोद्घाटनव चनयत् / तस्य प्रतिषेधो नासभ्यमनसभ्यम् / चपल:अनालोचितभाषी, तद्वचनमपि चपलं, तच्च दोषाक्षेपि भवति / आविलं-कलुषं, कषायवशवतिनो वचनं न आविलमनाविलं, प्रसन्नवचनमितियावत् / विरलं-विश्रम्यभाषणम् / सविच्छेदत्वाच्च श्रोतुरनादरवाक्यव्याहरणाच वणवैरस्यं करोति / न विरलमविरलमनुसन्ततमिति। सभ्रान्तं तु त्रासकर, न सम्भ्रान्तमसम्भ्रान्तं अतित्वरितं वा सम्भ्रान्तमर्नुच्छसन् भाषते च यत् अव्यक्तवर्णपदलोपत्वादप्रत्यायकं वा श्रुतिविरसाक्षरमप्ररोचकमेव स्यात् / मधुरमिति प्रसन्न पदघटितं श्रुतिसुखं, सुखावबोधार्थ च अनभिमान-विनयसहितं अभिजातं-सप्रश्रयं सविनयं सन्दिग्धम्-आकाङ्क्षाविनिवर्तने अक्षम, तद्विपरीतमसन्दिग्धमाकाङ्क्षाविच्छेदकारि. निराकाङ्क्षमिति / अस्फुटम् अनिश्चितार्थत्वादालूनविशीर्णप्रायं, (वि)निश्चितार्थ तु स्फुटम् / अनौदार्यम्-अत्यौद्धत्यप्रदीपकं, तद्विपरीतमौदार्यम् / अप्रधानार्थ अनौदार्य उदारार्थप्रतिबद्धत्वादुदारं तद्भाव औदार्य तद्युक्तमौदार्ययुक्तम् / विद्वज्जनमनोऽनुरञ्जनेऽसमर्थं ग्राम्य, न 1 व्याप्त्यर्थ' इति च-पाठः / 4 'अनभिमतमविनय' इति च-पाठः। 2 'न्तमुत्रास' इति च-पाठः। ५'मविनिश्चिता' इति -पाठः। 3 'अनुच्छ्वस' इति ङ-पाठः /