________________ 192 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 9 टी०-क्षमागुणांश्चेत्यादि / क्षमाया गुणाः ज्ञानादिवृद्धिहेतवोऽनायासाद्यः / तांश्चानुचिन्त्य क्षमामेव विदधीत / आयासो-दुःखहेतुश्चेष्टाविशेषः प्रहरणसहायान्वेषणं संरम्भावेशारुणविलोचनस्वेदेद्रवप्रवाहप्रहारवेदनादिकः। तद्विपरीतोऽनायासः-स्वस्थता / आदिग्रहणात् तत्प्रत्ययकर्मप्रायश्चित्ताभावः शुभध्यानाध्यवसायिता परसमाधानोत्पादनं स्तिमितप्रसन्नान्तरात्मत्वमित्यादयः। इत्थमनुस्मरतो गुणाः सम्पद्यन्ते क्षममाणस्य, क्षमितव्यमिति क्षमाधः। तथा मार्दवधर्मः मृदुः-अस्तब्धस्तद्भावस्तत्कर्म वा मार्दवम् / तल्लक्षणप्रदर्शनायाह ___ भा०-नीचैवृत्त्यनुत्सेको मार्दवलक्षणम् / मृदुभावो मृदुकर्म वा मार्दवं, मदनिग्रहो मानविघातश्चेत्यर्थः / तत्र मानस्येमान्यष्टौ स्थानानि भवन्ति // टी.-नीचैवृत्त्यनुत्सेकाविति / नीतिः -अभ्युत्थानासनदानाञ्जलिप्रग्रहयथाईविनयकरणरूपा नीचैवर्तनम् / उत्सेकश्चित्तपरिणामो गर्वरूपस्तद्विपर्ययोऽनुत्सेकः। संसारस्वभावं भावयतोऽसमञ्जसविशिष्टजातिकुलादिसम्पदः कदाचिदेवासाद्यन्ते कदाचिद्धीनास्ततो न गर्वपरिणाममास्कन्दतीत्येतदेवाह-मदनिग्रह इत्यादि / माद्यत्यनेनेति मदः जात्यादिमदस्तस्य ( निग्रहः उदयनिरोधः कदाचिदुदितस्य वा वैफल्यापादनं मानो-मूलप्रकृतिः यद्विजृम्भणादेते प्रादुष्पन्ति जात्यादिमदास्तस्य ) च निर्घातो मूलोस्कर्तनमित्यर्थः / तद्धाते चावश्यम्भावी जात्यादिमदविनाशः। तनिरूपणार्थमाह-सत्र मानस्येत्यादि / तत्रेति वाक्योपन्यासार्थः / स्थानानि भेदाः। इमानीति प्रत्यक्षीकरोति / परस्यानुभवमुत्पादयति भा०-तद्यथा-जातिः१ कुलं 2 रूपम् 3 ऐश्वर्य विज्ञानं 5 अष्टविधता मानस्य श्रुतं 6 लाभः 7 वीर्यम् 8 इति // टी०-तद्यथेत्यादिनोदाहरति / जात्यादीनि वीर्यान्तान्यष्टौ स्थानानि / तत्र जातिः पित्रन्वयः प्रख्याततमवंशता जातिर्जन्मात्मलाभः पञ्चेन्द्रियादिलक्षणा वा तया गर्वमुद्वहति विशिष्टजातिरहमिति / विदितकर्मपरिणामस्तु निरुणद्धि जातिमदं, स्वकृतकर्मफलानु. भाजो जीवा नानाजातीरुच्चावचाः प्रपद्यन्ते इति न श्रेयान् जातिमदः। मात्रन्वयः कुलं उग्रभोजादि वा / तेनापि मदोन युक्तएव जात्यादिभावनावदिति / रूपं शरीरावयवानां सनिवेश. विशेषो लावण्ययुक्तस्तेनापि कश्चिन्माद्यति, तत्प्रतिषेधस्त्वाद्युत्तरकारणालोचनाद् भवति / तत्राचं कारणं मातुरोजः पितुः शुक्रम् , उत्तरकारणं जननीग्रस्तानपानरसाभ्यवहारो रसहरण्येत्येवमामृशतो न प्रतिभाति रूपमदः / त्वगु-मांसा-ऽस्थि-पुरीष-पूयाद्यशुभप्रायत्वात् / ऐश्वर्यमदो १'द्रव्य' इति च-पाठः। २'च' इति घ-पाठः। 3 'जन्मारमा जातः पञ्चेन्द्रिया' इति च-पाठः / 4 'भोगादि' इति च-पाठः / 5 'षेधमुत्तर.' इति -पाठः /