________________ सूत्रं 6 ] . स्वोपज्ञभष्य-टीकालङ्कृतम् 191 . भा०-बालस्वभावचिन्तनाच परोक्षप्रत्यक्षाकोशताडनमारणधर्मभ्रंशानामुत्तरोत्तररक्षार्थम् / बाल इति मूढमाह / परोक्षमाक्रोशति बाले क्षमितव्यमेव / एवंस्वभावा हि बाला भवन्ति / दिष्टया च मां परोक्षमाकोशति न प्रत्यक्षमिति लाभ एव मन्तव्यः / प्रत्यक्षमप्याक्रोशति बाले क्षमितव्यम् / विद्यत एवैतद् बालेषु / दिष्टया च मां प्रत्यक्षमाकोशति, न ताडयति, एतदप्यस्ति बालेष्विति लाभ एव मन्तव्यः / ताडयत्यपि बाले क्षमितव्यम् / एवंस्वभावा हि बाला भवन्ति / दिष्टया च मां ताडयति, न प्राणैर्वियोजयतीति / एतदपि विद्यते बालेष्विति। प्राणैर्वियोजयत्यपि बाले क्षमितव्यम् / दिष्टया च मां प्राणैरियोजयति, न धर्माद् भ्रंशयतीति क्षमितव्यम् / एतदपि विद्यते बालेष्विति लाभ एव मन्तव्यः / किश्चान्यत टी०-बालस्वभावेत्यादि / बालशब्दोऽवैधेयवचनः, न क्योऽवस्थावाची / तथैव चाह भाष्यकृत् / बालः मूढो निर्विवेक इत्यर्थः / तस्य चैप एव स्वभावो मूढत्वात् यत्किञ्चनभापित्वं तत्स्वभावालोचनमन्वेषणं, अतस्तचिन्तनाच्च क्षमितव्यमेव / चशब्दः समुच्चयार्थः / उत्तरोत्तररक्षार्थमिति परीक्षाकोशात् प्रत्यक्षाकोशनमुत्तरं, प्रत्यक्षाक्रोशनात् ताडनं, ताडनान्मारणं, मारणाद् धर्मभ्रंशनं, परोक्षाक्रोशेन क्षमायां प्रत्यक्षाकोशनं रक्षितं भवति / एवमुत्तरत्रापि, अस्ति हि कियत्यपि मन्दाक्षमाक्रोष्टुर्मयि ततः परोक्षमाकोशति, न प्रत्यक्षम् / दिष्टयेति तृतीयैकवचनप्रतिरूपको निपातः प्रसादवचनः प्रशंसावचनो वा / अयमेव च प्रसादो मम-इदमेव वा साधु यन्मां परोक्षमाक्रोशति, न प्रत्यक्षमित्येष एव लाभः / लौकिकः खलु अयमामाणक:-अयमेव (मे) लाभ इति, एवं सर्वत्र व्याख्या। किश्चान्यदालम्बनमाश्रित्य क्षमा कार्यों तदभिधीयते भा०-स्वकृतकर्मफलाभ्यागमाच्च / स्वकृतकर्मफलाभ्यागमोऽयं मम, निमितमात्रं पर इति क्षमितव्यम् / किश्चान्यत् टी-स्वकृतफलाभ्यागमाचेति / जन्मान्तरोपात्तस्य कर्मणः स्वकृतस्यायं विपाको मम यदाक्रोशति ताडयति वा परः, स तु निमित्तमात्रं कर्मोदयस्य / यस्माद् द्रव्यक्षेत्रकालभवभावापेक्षः कर्मणामुदयो भगवद्भिराख्यातः / स्वकृतं च कमोनुभवितव्यमवश्यन्तया निकाचितं, तपसा वा क्षपणीयमिति / किञ्चान्यदालम्धनं क्षन्तुमनसा विधातव्यमित्याह भा०-क्षमागुणांश्चानायासादीननुस्मृत्य क्षमितव्यमेवेति क्षमाधर्मः // 1 // 1 'विधेय' इति च-पाठः /