________________ 190 तत्त्वार्थाधिगमसूत्रम् [ अध्याय: 9 टी०–तत् कथं क्षमितव्यमिति चेत् / क्षमितव्यमिति भावे कृत्यः / क्षमाऽपि भाष एव / अतः सामान्यमात्रमाश्रित्य तच्छब्दप्रयोगः। वाक्यार्थस्तु-सा-क्षमा कथं-केन प्रकारेण कर्तव्या ? / एवं मन्यते दुर्भञ्जः क्रोधवेगो मदाकुलस्येव करिणः / चेच्छब्दः शङ्कायाः सूचकः / एवमाशङ्किते आशङ्काव्युदासचिकीर्षया आह-उच्यत इति / क्रोधनिमित्तस्यात्मनि भावाभावचिन्तनात् / भावः सद्भावोऽस्तित्वं तचिन्तनात् तदुपयोगात् उभयथाऽपि क्रोधो न घटत इति / येन निमित्तेन परप्रयुक्तेनायं मम कोप उत्पद्यते तन्निमित्तं मयि किं सत्यमेवास्ति उताभ्याख्याति परः 1, यदि सत्यमस्त्येतनिमित्तं किं कोपेन ? कृतं खलु मयेदं, नाणीयोऽपि परस्यात्राऽऽगः सद्भूतमर्थ प्रकाशयतः, स्वकृतं हि दुश्चरितं तपतीत्येवं चिन्तयेत् / एतदेवाह-भावचिन्तनात् / तावद् विद्यन्ते मय्येते दोषाः किमत्रासौ मिथ्याब्रवीतीति क्षमितव्यं, तथाऽभावचिन्तनादपि क्षमितव्यमित्यादि, ये दोषाः परेणो. पक्षिप्यन्ते मयि नैते विद्यन्ते / अभाव एव, परस्त्वज्ञानादेवमभिधत्ते / अज्ञात्वैव दोषानुपक्षिपतीत्यर्थः / एवं च निरपराधमात्मानमवेत्य क्षन्तव्यमेव // किश्चान्यदालम्बनं सहिष्णुत्वे इत्याह भा०-परैः प्रयुक्तस्य क्रोधनिमित्तस्यात्मनि भावचिन्तनादभावचिन्तनांच क्षमितव्यम् / भावचिन्तनात् तावद् विद्यन्ते मयि एते दोषाः किमत्रासौ मिथ्या . ब्रवीतीति क्षमितव्यम् / अभावचिन्तनादपि क्षमितव्यम् , नैते विद्यन्ते मयि दोषा यानज्ञानादसौ ब्रवीतीति क्षमितव्यम् / किश्चान्यत् // टी०-गतार्थमेवेदं भाष्यम् / क्षमाकरणे अन्यान्या- भा०-क्रोधदोषचिन्तनाच क्षमितव्यम् / क्रुद्धस्य हि विद्वेषालम्बनानि सादनस्मृतिभ्रंशव्रतलोपादयो दोषा भवन्तीति / किश्चान्यत्॥ टी-क्रोधदोषचिन्तनाचेत्यादि / क्रुद्धः कषायपरिणतो विद्वेषी कर्म बध्नाति, परं वा निहन्ति व्यापादयति वा / अतः प्राणातिपातनिवृत्तिव्रतलोप: स्यात् , गुरूनासादयेद्अधिक्षिपेत् , अतो ज्ञानादिनिर्वाणसाधनपरिहाणिरवश्यंभाविनी / क्रद्धो वा भ्रष्टस्मृतिको मृषाऽपि भाषेत, विस्मृतप्रव्रज्याप्रतिपत्तिः परेणादत्तमप्याददीत, द्वेषात् परपाखण्डिनीषु ब्रह्मव्रतभेगमप्यासेवेत / तथा प्रद्विष्टः सहायबुद्धया गृहस्थेष्वविरतेषु मूर्छामपि कुर्यात् / आदिग्रहणाद् उत्तरगुणभङ्गमप्याचरेत् कारट्टक(करटुक?)भक्तालामे मासक्षपकवत् // किश्चान्य. दालम्बनं क्षान्तावित्याह 1 'अज्ञाच्चैव' इति ग-च-पाठः। 2 'नाद्वा' इति घ-पाठः। 4 'भवन्तीति' इति घ-पाठः। ५'भङ्गाना 'इति ग-पाठः। 3 'दपि नैते मवि' इति ग-पाठः /