________________ सूत्रं 6 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 189 "न्यासादानसमित्या व्युत्सर्गे चापि वर्णिता समितिः / सूत्रोक्तेन (च) विधिना व्युत्सृजतोऽर्थ प्रतिष्ठाप्यम् // 1 // " एवं साधोर्नित्यं यतमानस्याप्रमत्तयोगस्य / मिथ्यात्वाविरतिप्रत्ययं निरुद्धं भवति कर्म // 2 // " // 5 // __ अत्राह-उक्तं समितिगुप्तीनां संवरहेतुत्वम् / अधुना को धर्मः संवरस्य कारणम् 1 इति घक्तव्यम् / साध्वगारिधर्मभेदाहितसन्देहस्य प्रश्नः / उच्यते-सत्यप्यविशेषाभिधाने न पुण्यकर्म धर्मः, किं ताई , संवरापादनसामर्थ्यनिमित्तं यो धर्मः स उच्यते / सूत्रम्-उत्तमः क्षमा-मार्दवा-ऽऽर्जव-शौच-सत्य-संयमदशविधता . तपस्त्यागा-ऽऽकिञ्चन्य-ब्रह्मचर्याणि धर्मः // 9-6 // ०-उत्तमग्रहणं अगारिधर्मव्यवच्छेदार्थम् / उत्तमो धर्मः प्रकर्षयोगात् / क्षमादयो हि उत्तमविशेषणविशिष्टास्तादृशाश्चागारिणो न सन्ति / यतः सर्वावस्थां अनगाराः क्षमन्ते, सकलमदस्थाननिग्राहिणः शाठयरहिताः सन्तोषामृततृप्ताः सत्यवादिनः संयमिनः तपस्विनो यथावद् दातारः कनकादिकिञ्चनरहिताः सर्वप्रकारं ब्रह्म विभ्रतीति॥न त्वेवं जातुचिद् गृहिणां क्षमादयः प्रकर्षभाजो भवन्ति / क्षमादयः कृतद्वन्द्वाः प्रथमाबहुवचननिर्दिष्टाः समुदिता एवोत्तमो धर्मः / एष च क्षमादिसमुदयः संवरं धारयति करोति यतस्ततो धर्मः। संवरार्थ चात्मना धार्यत इति धर्मः। एतावन्ति धर्माङ्गानि तनिष्पादितश्च धर्म इति दर्शयतिभा०—इत्येष दशविंधोऽनगारधर्म उत्तमगुणप्रकर्षयुक्तो भवति // टी०–एवमेष दशप्रकारो यतिधर्मः / उत्तमा गुणा मूलोत्तराख्यास्तेषां प्रकर्षःपराकाष्ठा तयुक्तोऽनगाराणां धर्मो भवति // भा०-तत्र क्षमा तितिक्षा सहिष्णुत्वं क्रोधनिग्रह इत्यन र्थान्तरम् // टी-शत्र क्षमेत्यादिना विवृणोति / उत्तमत्वं क्षमेति क्षमणं-सहनं परिणाम आत्मनः शक्तिमतः / अशक्तस्य वा प्रतीकारानुष्ठाने तां पर्यायशब्दैराचष्टे / तितिक्षा क्षान्तिः। सहिष्णुत्वं सहनशीलत्वम् / क्रोधनिग्रहः क्रोधस्योदयनिरोधः, उदितस्य वा विवेकरलेन निष्फलताऽऽपादनम् / एवमेतेऽनन्तरवाचिनः शब्दाः क्षमामेवाभिदधति / भाष्यकारस्तु स्वयमेवाशझ्याह-- भा०–तत् कथं क्षमितव्यमिति चेदुच्यते-क्रोधनिमित्तस्यात्मनि भावाभावचिन्तनात् // अमायाः पर १'दृशागारिणि ' इति ग-पाठः /