________________ 188 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 9 टी०-अन्नपानेत्यादि / अन्नं-अशन-खाद्य-स्वाद्यभेदम् / पानं आरनालनन्दुलक्षालनाद्युद्गमादिदोषपरिशुद्धम् / तथा रजोहरणं समुखवसनम् / पात्रद्वयम् / चोलपट्टकादि चीवरम्। आदिग्रहणाचतुर्दशविधोऽप्युपधिः स्थविरकल्पयोग्यो जिनकल्पयोग्यश्च सहौपग्रहिकेण ग्राह्यः / धर्मसाधनानामिति / श्रुतचरणधर्मसाधकानामित्यर्थः, साक्षात् पारम्पर्येण च / न हि पात्राद्यन्तरेण महाव्रतसंरक्षणं कर्तुं शक्यम् / एवमाहारोपकरण विपयामेपणां प्रतिपाद्य प्रतिश्रयैषणाभिधानायाह-आश्रयः शय्या / साऽप्युद्गमादिदोषरहितैव परिभोग्या / चशब्दः समुचितौ / तत्र षोडश आधाकमोदय उद्गमदोषाः / उत्पादनादोषाः षोडशैव धान्यादयः / दशैषणादोषाः शङ्कितादयः / एतद्दोषपरिहारेणान्नपानादिग्रहणमेपणासमितिः / " उत्पादनोद्गमैषणधुमाङ्गारप्रमाणकारणतः। ___ संयोजनाच्च पिण्डं शोधयतामेषणाप्तमितिः // 1 // " आदाननिक्षेपसमितिस्वरूपविवक्षयाह भा०-रजोहरणपात्रचीवरादीनां पीठफलकादीनां चावश्यकाएं निरीक्ष्य प्रमृज्य चादाननिक्षेपो आदाननिक्षेपणासमितिः // टी-रजोहरणेत्यादि / रजोहरणपात्रचीवरादीनामिति चतुर्दशविधोपधिग्रहणं द्वादशविधोपधिपरिग्रहः, पञ्चविंशतिविधोपधिग्रहः, पीठफलकादीनामिति वा शेषोपग्रहिकोपकरणसङ्ग्रहणमावश्यकार्थमित्यवश्यन्तया वर्षासु पीठफलकादिग्रहः, कदाचिद्धेमन्तग्रीष्मयोरपि कचिदनूपविषये जलकणिकाकुलायां भूमावेवं द्विविधमप्युपछि स्थिरतरमभिसमीक्ष्य प्रमज्य च रजोहत्या आदाननिक्षेपौ कर्तव्यावित्यादाननिक्षेपणासमितिः। आह च "न्यासाधिकरणदोषान परिहत्य दयापरस्य निक्षिपतः। न्यासे समितिरथादाने च तथैवाददानस्य // 1 // ", उत्सर्गसमितिस्वरूपकथनायाह भा०-स्थण्डिले स्थावरजङ्गमजन्तुवर्जिते निरीक्ष्य प्रमृज्य च मूत्रपुरीषादीनामुत्सर्ग उत्सर्गसमितिरिति // 5 // टी.-स्थण्डिल इत्यादि / स्थानदानात् स्थण्डिलमुज्झितव्यवस्तुयोग्यो भूप्रदेशः। कीदृक् पुनस्तदवकाशं ददातीत्याह–स्थावरजङ्गमजन्तुवर्जितम् / तत्र स्थावराः संचित्ता मिश्राश्च पृथिव्यादयः पश्च / द्वीन्द्रियादयो जङ्गमाः। तद्वर्जिते निरीक्ष्य चक्षुषोपयुज्य प्रमृज्य च रजोहत्या वस्त्रपा–खेलमलभक्तपानमूत्रपुरीषादीनामुत्सगे-उज्झनभुत्सगेसमितिः। इतिशब्दः परिसमाप्तिव वनः / आह च-- १'ग्रहणं' इति छ-पाठः। २'परिग्रहः' इति छ-पाठः। 3 'असचित्ता' इति च-पाठः / ४'लेखमाबभक्त' इति ग-च-पाठः।