________________ सूत्रं 5] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 187 " जो य सच्चा अवत्तव्वा, सच्चामोसा य जा मुसा / जा य बुद्धेहिं नाइण्णा, न तं भासिज्ज पण्णवं // 1 // " -दशवैकालिके ( अ० 7, उ० 2, सू० 2) सम्यगेषणा-गवेषणमागमविधिना पिण्डादीनाम् / सम्यगादाननिक्षेपौ प्रत्युपेक्षाप्रमार्जनपूर्वको। सम्यगुत्सर्गः स्थण्डिले व्यपगतप्राणिके / इतिशब्दः स्वरूपप्रतिपादनार्थः। एवंस्वरूपाः पञ्चैव समितयः / तदेव स्वरूप प्रपश्चयति-तत्रेयादि / तत्र-तासु समितिष्वीर्यासमितिरित्थरूपा आवश्यकीयैवेति अवश्यकार्यमवश्यं कर्तव्यं यदागमचोदितं प्रयोजनं विहारादिभूगमनं तदेव भूयः स्पष्टयति-संयमार्थमिति / संयमः मतदशभेदः / तदेव चावश्यकमवश्यंतया कर्तव्यम् / सर्वत इति सर्वत्र युगप्रमिते भूप्रदेशे, पादाग्रादारभ्य यावद् युगमात्रं तावनिरीक्षणेत्यर्थः। युक्त आयुक्तस्तस्यैवं चेष्टमानस्य शनैः शनैः-मन्दं गतिभेदमकुर्वतोऽन्यासश्चरणयोराचरत इयोसमितिः / आह च " उपयोगोद्योतालम्बनमार्गविशुद्धिभियंतेश्वरतः। सूत्रोदितेन विधिना भवतीर्यासमितिरनवया // 1 // " सम्प्रति भाषासमितिनिरूपणायाहभा०-हितमितासन्दिग्धानवद्यार्थनियतभाषणं भाषासमितिः // री०-हितमितेत्यादि / आत्मने परस्मै हितमायत्यामुपकारकं मुखवसनाच्छादितास्यता, नातिबहु प्रयोजनमात्रसाधक मितं, असन्दिग्धं सूक्तम् अर्थवर्णप्रतिपत्तौ वा न सन्देहकारि निरवद्यार्थमनुपघातक षण्णां जीवकायानां एवंविधं च नियतं सर्वदैव भाषणं भाषासमितिः / आह.च " त्यक्तानृतादिदोषं सत्यमसत्यानृतं च निरवद्यम् / सूत्रानुयायि वदतो भाषासमितिर्भवति साधोः // 1 // " एषणासमितिस्वरूपावधारणायाह भा०-अमपानरजोहरणपात्रचीवरादीनां धर्मसाधनानामाश्रयस्य चोद्नमोत्पादनैषणादोषवर्जनमेषणासमितिः // 1 छाया या च सत्याऽवक्तव्या सत्यामृषा च या मृषा। या. च बुद्धरनाचरिता नेमां भाषेत प्रज्ञावान् // २'रूपाश्रयस्य काये.' इति च-पाठः / 3 'आवश्यकार्यवेत्या' इति ग-पाठः। ४'विदितं इति -पाठः। ५'युगप्रतीते भूप्रदेशे' इति ग-च-पाठः / 6 'स्यक्त्वा ' इति च-पाठः / 7 'नुवीचि ' इति च-पाठः।