________________ 186 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 9 " तद्गुणपरिशुद्धयर्थ भिक्षोर्गुप्तीर्जगाद तिस्रोऽहन् / ___ चेष्टितुकामस्य पुनः समितीः प्राजिज्ञपत् पञ्च // 1 // " इति // पञ्चविधत्वं वं सूत्रम्-ईर्या-भा-षणा-ऽऽदाननिक्षेपोत्सर्गाःसमितयः९.५ समितीनाम् टी-अनन्तरसूत्रात् सम्यग्ग्रहणमनुवर्तते, तत् प्रत्येकमभिसम्बन्धनीय समितिग्रहणं च / ईरणमिर्या-गतिपरिणामः। सम्यगागमानुसारिणी गतिः ईयर्यासमितिः / समितिरिति तान्त्रिकी संज्ञा पश्चसु चेष्टासु / अथवा नानुवर्तते सम्यग्ग्रहणम् / समितिरिति समुपसर्गः प्रशंसार्थः / प्रशस्ता-इति चेष्टा सर्ववित्प्रवचनानुसारेण प्राशस्त्यार्थी / एवं भाषणं भाषा तद्विषया चेष्टा (भाषा)समितिः / एषणमेषो-गवेषणं तं करोतीति णिच तत्र स्त्रीलिङ्गे भावे युच् एषणा, यथागममाहारादेरन्वेषणमेषणासमितिः। आदान-ग्रहणं, निक्षेपो-न्यासः स्थापनं तयोः समितिः-प्रावचनेन विधिना अनुगता आदाननिक्षेपसमितिः / उत्सर्जनमुत्सर्गः / उत्सर्जनमाहारोपधिशय्योचारादेर्भगवद्वचनापेक्षमुत्सर्गसमितिः / ईर्यादयः कृतद्वन्द्वाः समितिशब्दसमानाधिकरणा इति / अमुमेवार्थ भाष्येण स्फुटयति भा०-सम्यगीर्या सम्यग्भाषा सम्यगेषणा सम्यगादाननिक्षेपौ सम्यगुत्सर्ग इति पश्च समितयः / तत्रावश्यकायैव संयमार्थ सर्वतो युगमात्रनिरीक्षणायुक्तस्य शनैन्यस्तपदा गतिरीर्यासमितिः॥ ___टी-सम्यगीर्येत्यादिना, सम्यग्-आगमपूर्विका ईर्या-गमनमात्मपरवाधापरिहारेण। यथोक्तं ( दशवकालिके अ० 5, उ० 1, सू० 3-4) "पुरओ जुगमायाए, पेहमाणो महिं चरे। वजितो बीयहरियाई, पाणे य दगमट्टियं // 1 // " ओवायं विसमं खाणुं, विज्जलं परिवजए। संकमण न गच्छिज्जा, विजमाणे परक्कमे // 2 // " सम्यग्भाषाऽप्यागमानुवर्तिनी 1 प्रतिष्ठा' इति ग-पाठः / 2 छाया पुरतो युगमात्रया प्रेक्षमाणो महीं चरेत् / वर्जयन् बीजहरितानि प्राणितश्चोदकं मृत्तिकाम् // 1 // अवमातं विषमं स्थाणुं विजल (सकर्दमं) परिवर्जयेत् / संक्रमेण (अस्थिरेण) न गच्छेत् विद्यमाने पराक्रमे (स्थिरे) // 2 // .