________________ सूत्र 4 ] .. स्वोपज्ञभाष्य-टीकालङ्कृतम् सन्निवेशितदृष्टेरप्रमत्तस्य स्थावराणि जङ्गमानि च भूतानि परिवर्जयतोऽत्वरया पदन्यासमाचरतः प्रशस्तम् / एवमेतेषु गमनादिविषयेषु कायकृतचेष्टायाः-कायव्यापारस्य नियमोव्यवस्था निग्रहः-एवं कर्तव्यम्, एवं न कर्तव्यमिति / उक्तं च "कायक्रियानिवृत्तिः कायोत्सर्गे शरीरगुप्तिः स्यात् / दोषेभ्यो वा हिंसादिभ्यो विरतिस्तयोर्गुप्तिः // 1 // " अत्र च यद्यपि मनोव्यापारसंसृष्टः कायव्यापारः तथापि कायचेष्टायाः साक्षात्कायेनैव निष्पादितत्वाद् बहिरुपलक्ष्यमाणत्वाच प्राधान्येन विवक्षा / वाग्गुप्तिविषयप्रदर्शनायाहभा०-याचन-पृच्छन-प्रश्नव्याकरणेषु वानियमो मौनमेव वा वाग्गुप्तिः॥ टी०-याचनेत्यादि / याचन-प्रार्थनं अन्यतो गृहस्थादेराहारोपधिशय्याना, तच्च मुखवसनाच्छादितवक्त्रभागस्य प्रवचन विहितवाक्यशुद्धयनुसारिणो भाषमाणस्य वाग्गुप्तिर्भवति / तथा पृच्छनमाचरतोऽध्वगमनवैद्यसन्देहविच्छेदादि विषयमागमविधिमानो वाग्गुप्तिः / तथा धर्ममाचक्ष्वेति पृष्टः श्राद्धेम केनचित् प्रकल्पग्रन्थाभिहितनीत्या व्याकुर्यात् सम्यगुपयुक्तः, अन्यद् वा सावद्यमनवा वा पृष्टः समाधाय लोकागमाविरोधेनाचक्षीत, एवंविधः पृच्छनादिविपयो वानियमो वाग्गुप्तिः, मौनमभाषणमेव वा वाचोगुप्तिरिति / आह च "अनृतादिनिवृत्तिा, मौनं वा भवति वाग्गुप्तिः / " इति // मनोगुप्तिस्वरूपाख्यानायाह- भा०-सावद्यसङ्कल्पनिरोधः कुशलसङ्कल्पः कुशलाकुशलसङ्कल्पनिरोध एव वा मनोगुप्तिरिति // 4 // टी.-सावयेत्यादि / अवयं-गर्हितं-पापं सहावद्येन सावधः सकल्पः-चिन्तनं आलोचनं आतरौद्रध्यायित्वं चलचित्ततया वा यदवद्यवचिन्तयति, तस्य निरोधः-अकरणमप्रवृत्तिर्मनोगुप्तिः। तथा च कुशलसङ्कल्पानुष्ठानं सरागसंयमादिलक्षणं येन धर्मोऽनुबध्यते यावांश्चाध्यवसायः कर्मोच्छेदाय यतते सोऽपि सर्वः कुशलसङ्कल्पो मनोगुप्तिः। अथवा न कुशले सरागसंयमादौ प्रवृत्ति प्यकुशले संसारहेतो,योगनिरोधावस्थायामभावाद् एवं मनसो गुप्तिः / तत्काले च ध्यानसम्भवात् सकलकर्मक्षयार्थ एवात्मनः परिणामो भवतीति // 4 // एवं कायादिनिरोधात् तन्निमित्तकर्मानास्रवणे सति संवरसिद्धिरुक्ता / सम्प्रति चेष्टापतोऽपि संवरसिद्धयर्थमिमाः पञ्च समितयोभिधीयन्ते / आह च 1 वाग्गुप्तिः' इति ग-पाठः / 2 'प्रवचनविदित' इति च-पाठः / 24