________________ 184 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 9 ___टी०-सम्यगित्यादि / सम्यगित्यस्य शब्दार्थमाचष्टे-विधानत इति, सभेदं विज्ञाय योगं, तत्र काययोगस्यौदारिक-वैक्रिया-ऽऽहारक-तैजस-कार्मणभेदाः सम्भविनः, वाग्योगस्य सत्यामृपादयः, मनसः सावधसङ्कल्पादयः / ज्ञात्वेत्यागमतो यथावदवबुध्य, अभ्युपेत्य सम्यग्दर्शनपूर्वकमिति प्रतिपद्य च भावतः-एवमेते योगाः परिणताः कर्मवन्धाय, एवं च कर्मनिर्जरायै / सम्यग्दर्शनपूर्वकमित्यभ्युपगमक्रियाविशेषणम् / प्रशम-संवेग-निर्वेदा-ऽस्तिक्या-ऽनुकम्पाभिव्यक्तिलक्षणं सम्यग्दर्शनं तत् पूर्व यस्याभ्युपगमस्येति / त्रिविधस्य योगस्येति मूलभेदाख्यानम्, उत्तरभेदानां मूलानतिलकित्वात् परिग्रहः निग्रहः स्ववशे व्यवस्थापन, स्वातन्त्र्यप्रतिषेधेन मुक्तिमार्गनुकूलः परिणामो गुप्तिः, संरक्षणं भयानकात् कर्मवन्धशत्रोः। त्रैविध्यप्रतिपादनायाहगते प्रकारप्रयं भा०-कायगुप्तिः, वाग्गुप्तिः, मनोगुप्तिरिति। तत्र शयना-ऽऽसनाकायगुप्तेर्लक्षणं च ऽऽदाननिक्षेप स्थान-चङ्क्रमणेषु कायचेष्टानियमः कायगुप्तिः // टी-कायगुप्तिर्वाग्गुप्तिमनोगुप्तिरिति / कायस्य गुप्तिः-संरक्षणं उन्मार्गगतेरागमतः / तथा च संरक्षितः कोयो नात्मानमुपहन्ति, एवं वाङ्मनोगुप्त्योरपि व्याख्या / इतिशब्दो. ऽवधारणार्थः / त्रिविध एव मूलभेदतो योगः / तत्र-तेषु योगेषु निगृहीतव्येषु काययोगनिग्रह एव तावदच्यते-शयनमागमोक्तो निद्रामोक्षकालः / स च रात्रावेव, न दिवाऽन्यत्र ग्लानादेः। तत्रापि क्षणदायाः प्रथमयामेऽतिक्रान्ते गुरुमापृच्छय प्रमाणयुक्तायां वसतौ, एकस्य साधोहस्तत्रयप्रमिते भूप्रदेशे सभाजनस्य च यत्रावस्थानं सकलावकाशपूरणं च सा प्रमाणयुक्ता, तत्र प्रमृज्य स्वावकाशं प्रत्यवेक्ष्य संहृत्यास्तीय च संस्तरणपट्टकद्वयमूवेमधश्च शयन कायं प्रमृज्य सपादं मुखवस्त्रिका-रजोहतिभ्याम् अनुज्ञापितसंस्तारकावविवरणम् स्थानः कृतसामायिकनमस्कृतिः वामबाहूपधानः आकुञ्चितजानुकः कृकपाकुवद् वियति प्रसारितजयो वा प्रमार्जितक्षोणीतलन्यस्तचरणो वा भूयः सङ्कोचसमये प्रमार्जितसंदंशकमुद्वर्तनकाले च मुखवस्त्रिकाप्रमृष्टकायो नात्यन्ततीव्रनिद्रः शयीत / ___ आसनं-निवेशनं यत्र भूप्रदेशे विवक्षितं तं प्रत्यवेक्ष्य चक्षुषों च रजोहरणेन प्रमृज्य च पहिनषद्यामास्तीर्य निविशेत / निविष्टोऽप्याकुश्चनप्रसारणादि पूर्ववत् कुर्वीत / वर्षादिषु च सिकापीठकायमुयैव सामाचार्या प्रत्यवेक्ष्यं प्रमृज्य च सन्निवेशनं कुर्यात् / आदाननिक्षेपो च दण्डकोपकरणचेष्टाभोजनादि विषयो, वा तावपि प्रत्यवेक्षणप्रमार्जनपूर्वकै निरवचै भवतः। तथा स्थानमूवस्थितिलक्षणमवष्टम्भादिकसुप्रत्यवेक्षितप्रदेशविषयं पिण्डीकृतवस्त्राद्यन्तर्धानमवष्टम्भादि च निरवा, चक्रमणं-गमनं तदपि प्रयोजनवतः पुरस्ताद् युगमात्रप्रदेश 1 निग्रहः परिग्रहः' इति ग-पाठः / 2 'कायेना' इति च-पाठः / 3 प्रमाणायुष्काणां' इति - च-पाठः / 4 'प्रमृज्यकायेन ' इति ङ-पाठः। 5 'चक्षुषा प्रमृज्य च रजोहत्या बहिर्निष० ' इति च-पाठः / 6 'यत्र भूप्रदेशे निविष्टो' इति ङ-पाठः / 7 'वृमिका' इति च-पाठः / 8 'प्रत्युपेक्ष्य प्रमृज्य ' हरि पाठः / 9. दिवास्तुप्रत्य ' इति ज-पाठः / 10 ' चक्रमण ' इति ग-च-पाठः /