________________ उत्तरसूत्र सूत्र 4 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 183 - भा०-तपो द्वादशविधं वक्ष्यते ( अ० 9, सू० 19-20 ) / तेन संवरो भवति निर्जरा च // 3 // टी०-तपो द्वादशविधमित्यादि भाष्यम् / द्वादश विधा:-प्रकारा यस्य तद् द्वादशविधं तपः, उपरिष्टात् इहैवाध्याये (मू०१९-२०) अभिधास्यते-बाह्यमनशनादि षोढा, आभ्यन्तरं च प्रायश्चित्तादि षोढा / तेन द्वादशभेदेन तपसा करणतामापन्नेनोक्तलक्षणः संवरो भवति-आगन्तुककर्माभावप्रतिपादनं, निर्जरा च भवतीति चिरन्तनबद्धकर्माभावप्रतिपत्तिः / एवमिदमुभयस्य संवरनिर्जरालक्षणस्य हेतुभूतं तपो भवतीति // 3 // आह-अस्मिन् भारते वर्षे साम्प्रतिकपुरुषाणामल्पवीर्यत्वात् सकलयोगनिरोध___ * लक्षणसंवरात्यये गुप्त्यादिसामोत् परिस्पन्दवतामपि संवरास्तित्व . माश्रीयते यदि ततस्त एव स्वरूपतोऽभिधेया इति क्रमेण गुप्त्यादिस्वसम्बन्धः रूपनिर्णयः कार्यः / तत्र तावद् गुप्तिस्वरूपमेवोच्यते-" सम्यग्योगनिग्रहो गुप्तिः" (सू० 4) / भाष्यकारस्त्वन्यथा कियताऽपि विशेषेण सम्बन्धमाह भा०-अत्राह-उक्तं भवता (अ० 9, सू० २)-गुप्त्यादिभिरभ्युपायैः संवरो भवतीति / तत्र के गुप्त्यादय इति ? / अत्रोच्यते टी-अत्राह-उक्तमित्यादि / गुप्त्यादिभिः संवरो भवतीत्यत्रावसरे कश्चित प्रश्नयति-उक्तं भवता गुप्त्यादिभिरभ्युपायैः संवरो भवति / तत्र-तेषु संवर. कारणेषु के गुप्त्यादयः-किंस्वरूपा गुप्त्यादय इति / अत्रोच्यते प्रतिपादयितुर्वचनम्, अत्र प्रश्ने निर्वचनमभिधीयते // . . गुप्तिलक्षणम् सूत्रम्-सम्यग्योगनिग्रहो गुप्तिः // 9-4 // टी०-सम्यक्-प्रशस्तो मुमुक्षोर्योगनिग्रहो गुप्ति:-आत्मसंरक्षणम् / योगा मनोवाक्-कायलक्षणास्तेषां निग्रहो-निगृहीतिः प्रवचन विधिना मार्गव्यवस्थापनमुन्मार्गगमननिवारणं चेति, अतो योगनिग्रहविशेषणार्थ सम्यगिति, सम्यग्-आगमानुसारेणारक्तद्विष्टपरिणतिसहचरिष्णोर्मनोव्यापारः काय-वाग्व्यापारश्च निर्व्यापारता-वाक्-काययोनिग्रहो गुप्तिर्भवति, न पुनस्तस्करस्येव प्रैत्यग्रागसो गाढबन्धनबद्धस्यातिपीडितहृदयप्रदेशस्य सम्पुटितनकविवरस्य पराधीनात्मनोऽनिच्छतो( वृत्तो) योगनिग्रह इष्यते / सम्प्रति भाष्येण सूत्रार्थ स्पष्टयनाह भा०-सम्यगिति विधानतो ज्ञात्वाऽभ्युपेत्य सम्यग्दर्शनपूर्वकं त्रिविधस्य योगस्य निग्रहो गुप्तिः / 1 वक्ष्यामः' इति इ-पाठः। 2 'गन्तुका' इति उ--पाठः। 3 'काययोग ' इति ग-पाठः / 'प्रत्ययाप्रशो' इति ग-पाठः /