________________ 182 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 9 निक्षेपणादिनिमित्तमात्मनि नाश्लिष्यति कायोत्सर्गभाजः परित्यक्तहिंसादिदोपविषयक्रिया कस्य वा समयविहितक्रियानुष्ठायिनः, कायगुप्तत्वात्, एवं सम्यग्योगत्रयनिगृहीतिलक्षणास्तिस्रो गुप्तयः संवरस्य कारणीभवन्ति / समितयोऽपि गुप्तिरूपा एव प्रायश्चेष्टालक्षणत्वात् / चेष्टा च कायवाअनोव्यापारः / तत्रेयर्याऽऽदाननिक्षेपोचारादित्यागसमितयस्तिस्रः कायव्यापारान्तर्भूताः / मनोव्यापारानुयायिनी चैषणासमितिः, वाग्व्यापारलक्षणा भाषासमितिः / यत् तु पार्थक्येनोपादानं तत् मन्दधियां विवेकेन सुखप्रतिपयर्थ, प्रथमव्रतमृपावादादिप्रपञ्चवत् / तथा क्रोध-मान-माया-लोभानां सभेदानां क्षमा-मार्दवाऽऽर्जव-शौचैर्निगृहीतत्वात् संवरावाप्तिः / सत्य-त्यागा-ऽऽकिञ्चन्य-ब्रह्मचर्याणि चारित्रानुरोधीनि / संयमोऽपि सप्तदशप्रकारः कश्चित् प्रथमव्रतान्तःपाती, कश्चिदुत्तरगुणान्तर्भूतः। तपो द्वादशविधमुत्तरगुणान्तःपात्येव / अनित्याशरणादिचिन्तनमपि संवृण्वतो हेतुभूतमुत्तरगुणानुयायि च / परीपहा अपि यथास्त्रमापतिताः सम्यगधिसहनेन जीयमानाः संवरमाविष्कुर्वन्ति / तथा हिंसा-ऽनृतवचन-परस्त्राहरणा-ब्रह्मचर्य-परिग्रहयामिनीभोजनानि संश्लेषविशेषाहितकलुषस्य कर्मास्रवनिमित्तानि / निरोधे सति विरमणभाजो न जातुचिदापतति तनिमित्त कर्मेति / आधाकर्मादिपरिभोगनिमित्तं च कर्मास्रवणं तत्परित्यागे सति नैवास्ति / सर्व चैतेदारेकादिदोपजम्बालविमुक्तसम्यग्दर्शनपीठप्रतिवन्धं गुप्त्यादि चारित्रान्तम् अतः सति तत्त्वार्थश्रद्धानलक्षणे सम्यक्त्वे न भवति मिथ्यादर्शनप्रत्ययः कर्मास्रव इत्येवमेते गुप्त्यादयः संवरस्य हेतवः-अभ्युपायाः सम्पद्यन्त इति // 2 // अथ किमेभिरेव गुप्त्यादिभिरेष संवरो निष्पद्यते उतापरेणापि केनचिदित्याहकिश्चान्यदिति / अनेन कारणान्तरमपि सम्बध्नाति / न गुप्त्यादय एव केवलाः संवरणसमर्थाः, किश्चान्यदपि तपोलक्षणं संवृतेः कारणमस्तीति प्रदर्शयन्नाह संवरस्य / अपर उपायः सूत्रम्-तपसा निर्जरा च // 9-3 // टी०–तपसा निर्जरा चेति / पृथग् योगकरणमुभयहेतुत्वात् / तपसोऽभिनवकर्मप्रवेशाभावः पूर्वोपचितकर्मपरिक्षयश्च / तप्यत इति तपः, सेव्यत इतियावत् / तपति वा कर्तारमिति तपः / तपसेति करणे तृतीया। निर्जरणं निर्जरा-विपकानां कर्मावयवानां परिशटनं, हानिरित्यर्थः। तपसा सेव्यमानेन कर्माण्यात्मप्रदेशेभ्यो विघटन्त इतियावत् / कर्तुः सन्तापकत्वाद् वा शुष्करसं कर्मातिरूक्षत्वान्निःस्नेहबन्धनं परिशटतीत्यर्थः / चशब्दः प्रस्तुतसंवरानुकी, तपसा संवरश्च क्रियते, अनशनप्रायश्चित्तध्यानादितपोयुक्तोऽवश्यन्तयैव संवृतास्रवद्वारो भवतीति // 1 'निक्षेपादि ' इति ङ-पाठः / 2 'देकादि ' इति उ-पाठः / 3 'संवृतस्य' इति ङ-पाटः।