________________ उपायाः सूत्रं 2 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 181 संसारजलधेरुत्तरीतुमभिवाञ्छता प्रधानसंवराभावेऽपि न्यस्तसमस्तप्रमादस्थानानां देशसंवरः समस्त्येवेति / तत्प्रतिपादनायाहसंवरस्य सूत्रम्स गुप्ति-समिति-धर्मा-ऽनुप्रेक्षा-परीपहजय-चारित्रैः // 9-2 // टी०-अथवा आस्रवनिरोधलक्षणः संवर उक्तः। स पुनः केनोपायेन कर्तव्य इत्युपायस्य दर्शनार्थमिदं सूत्रं स गुप्तीत्यादि / स इत्यनेन सर्वनाम्ना प्रक्रान्तं संबर परामृशति / गुप्यतेऽनयेति गुप्तिः, संरक्ष्यतेऽनयेत्यर्थः, संकृण्वतो हि गुप्त्यादयः करणीभवन्ति सम्यग्गतिहेतुत्वात् समितयः, गतिरिति सकलकियोपलक्षणम् सर्वज्ञप्रणीतज्ञानानुसारिण्यश्चेष्टाः. संवरमादधति / नरकादिकुगतिप्रपातधारणाद् धर्मः क्षमादिदशलक्षणकः / अनुप्रेक्षणम्-अनुचिन्तनम् अनुप्रेक्षा अनुप्रेक्ष्यन्ते-भाव्यन्त इति वाऽनुप्रेक्षाः / तादृशानुचिन्तनेन तादृशीभिर्वा वासनाभिः संवरः सुलभो भवति / समन्तादापतिताः क्षुत्पिपासादयः सह्यन्त इति परीपहाः, परीषहा इति कः शब्दसंस्कारः? न तावत् पचाद्यचि, कर्तरि विहितत्वात्; न कर्मसाधनो घञ्वृद्धिप्रसङ्गात् "पुंसि संज्ञायां धः" (पा० अ०३ पा०३ सू० 118 ) इति चेत्, न, तस्य * करणाधिकरणयोविधानात् / उच्यते-" कृत्यल्युटो बहुलं" (पा० अ० 3 पा० 3 सू० 113) इति वचनात् कर्मण्येव घञ्प्रत्ययः / “उपसर्गस्य घञ्यमनुष्ये बहुलं" (पा० अ०६, पा० 3, सू०१२२) इति (बहुल)ववनात् पनि चान्यत्र च दीर्घत्वं शिष्टप्रयोगानुसरणात् परीषहाणां जयः-न्यकरणमभिभवः परीषहजयः / चर्यते तदिति चारित्रं, पोदरादित्वाद वा अष्टविधकर्मचयरिक्तीकरणात् चारित्रं सामायिकादिपञ्चभेदम् / गुप्त्यादीनां चारित्रान्तानां द्वन्द्वः / एभिर्गुप्यादिभिः करणभूतैः संवरोऽवाप्यत इति / / सम्प्रति भाष्यमनुस्रियतेभा०–स एष संवर एभिर्गुप्त्यादिभिरुपायैर्भवति // 2 // किश्चान्यत् टी०–स एष संवर इत्यादि / प्रस्तुतसंवरसम्बन्धनार्थस्तच्छब्दः / स संवरः आस्रवनिरोधलक्षणः / एष इत्यनेन मनसि व्यवस्थापितः, एभिर्गुस्यादिभिः करणभूतैरभ्युपायैर्भ: पति-जायते, स्वरूपं प्रतिलभत इतियावत् / कथं पुनः करणरूपं गुप्त्यादयः प्रपद्यन्ते ? तत्र रागद्वेपपरिणतेरातरौद्राध्यवसायात् मनो निर्वर्त्य निराकृतैहिकामुष्मिकविषयाभिलापस्य मनोगुसत्वादेव न रागादिप्रत्ययं कर्मास्रोष्यति, यच्च वाचिकमसंवृतस्यासत्पलापिनोऽप्यप्रियवचनादिहेतुकं कर्माभिधीयते न तद् वाग्व्यापारविरतस्य यथाविहितवाग्भाषिणः, वाचाऽपि गुप्तत्वादेव, तथा कायिकमनिभृतस्य धावनवल्गनाप्रत्युपेक्षिताप्रमार्जितावनिप्रदेशचक्रमणद्रव्यान्तरादान १'धेस्तरीतुं' इति हु-पाठः / 2 ‘सत्यतः मस्त' इति ङ-पाठः / 3 'मभिभूतस्य ' इति ग-पाठः, 'मनिवृत्तस्य ' इति तु उ-पाठः।