________________ नवमोऽध्यायः 9 टी-तंत्र तावदध्यायसम्बन्धमाह भाष्यकार:भा०-उक्तो बन्धः / संवरं वक्ष्यामः // टी०-उक्तः-प्रपञ्चेन प्रतिपादितोऽनादिसन्ततिरष्टविधः कर्मबन्धः। पौरुषेयवादेत्र कदाचित् केनचिदत्यन्तमुच्छिद्यतेऽपि, पुंसा समासादिततदुच्छेदसाधनेनात्यन्तिकं क्षयमापा द्यत इति / तत्र पूर्वोपचितकर्मजालविच्छेदाय “तासा निर्जरा च" इति कात्स्न्येनोच्छेदं वक्ष्यति (अ० 9, सू० 2) / अपूर्वकर्मावयवप्रवेशनिवारणाय तु संवरमेव तावद् वक्ष्यामःसंवरलक्षणम् सूत्रम्-आस्रवनिरोधः संवरः॥९-१॥ . टी०-आसूयते-समादीयते यैः कर्माष्टविधमास्रवास्ते कर्मणां प्रवेशवीथयः शुभाशुभलक्षणाः कायादयस्त्रय इन्द्रिय-कषाया-ऽव्रत-क्रियाश्च पञ्च-चतुः-पञ्च-पञ्चविंशतिसङ्ख्यास्तेषां निरोधो-निवारणं-स्थगनं संवरः / पर्यायकथनेन व्याख्या // भा०-यथोक्तस्य काययोगादेईिचत्वारिंशबिधस्यास्रवस्य निरोधः संवरः // 1 // __टी०-यथोक्तस्येत्यादि भाष्यम् / पठेऽध्याये कायादिरास्रवोऽभिहितोऽनेकप्रकारः, तस्य काययोगादेरास्रवस्य यधिकचत्वारिंशद्भदस्य निरोधो यः स संवरः / आत्मनः कर्मोपादानहेतुभूतपरिणामाभावः संवर इत्यभिप्रायः। अतो यावकिञ्चित्कर्मागमनिमित्त तस्याभावः संवरः / स च सर्व-देशभेदाद द्विधा। बादरसूक्ष्मयोगनिरोधकाले सर्वसंवरः, शेष ..काले चरणप्रतिपत्तेरारभ्य देशसंवरपरिणतिभागात्मा भवति। अत्राह-यदि संवरद्वैविध्यम् / विश्यम् सकलास्रवद्वारस्थगनलक्षणः संवरस्ततः सर्वकर्मनिमित्तास्रवच्छिद्रसंवु. वर्षा कतिपयपुरुषसाध्यैव प्रसजति, अशेषस्य परिस्पन्दस्य निराचिकीर्षितत्वात् / अतः समचतुरस्रसंस्थानवज्रर्षभनाराचसंहननादिभाजामाहितपराक्रमाणां कर्माणि निर्जिजीर्षतां परिपूर्णशक्तिकानां परिस्पन्दस्वभावयोगत्रयनिग्रहः क्रमते, प्रागुपचितकर्मनिवृत्तिश्च, न पुनरैदंयुगीनपुरुपाणां यथोक्तसंवराभावादिति ?, उच्यते-संवरद्वैविध्ये सति सर्वसंवराभावः साम्प्रतिकानामित्यनुमनुमहे / देशसंवरस्तु सामायिकादि चारित्रवतां सत्यपि परिस्पन्दवत्वे विदिततत्वानां १'उत्तो बन्धः संवरं वक्ष्यामः इत्यनेनाध्याय 'इति छ-पाठः। 2 तालव्यपाठो ङ-प्रतौ। 3 स्पन्दवच' इति ङ-पाठः।