________________ सूत्र 26 ) __ स्वोपज्ञभाष्य-टीकालङ्कृतम् 179 अगुरुलघु-पराघातो-च्छ्वासो-योता-ऽऽतपाश्च निर्माणम् / उधैर्गोत्रं नर-देवप्रायोग्यानुपूव्यौँ च // 3 // प्रत्येकदेह-बादर-पर्याप्ता-ऽऽदेय-सुस्वर-त्रसताः। स्थिर-शुभ-सुभग-यशांसि च शुभसंज्ञाः प्रकृतयः प्रोक्ताः // 4 // सम्यक्त्व-हास्य-रति-धववेदानां पुण्यतामुशन्त्येके / न तथा पुनस्तदिष्टं मोहत्वाद् देशघातित्वात् // 5 // केवलवर्जज्ञानावृद्धिघ्नं नोकपायसंज्वलनाः। अवधिदृगनक्षिनेत्रावरणानि च देशघातीनि // 6 // दृगज्ञानावृन्मोहानां, शेषं सर्वघातिकर्मोक्तम् / घाति प्रतिपाति किश्चित् (किश्चिद )पात्यन्यदुपदिष्टम् // 7 // अपरस्त्वाह रति-सम्यक्त्व-हास्यानां, पुवेदस्य च पुण्यताम् / भभिप्राय माय- मोहनीयमिति भ्रान्त्या, केचिनेच्छन्ति तच न ॥१॥-अनु० मित्रता सर्वमष्टविधं कर्म, पुण्यं पापं च निघृतम् / / कि कर्मव्यतिरिक्तं स्याद्, यस्य पुण्यत्वमिष्यताम् // 2 // शुभायु-र्नाम-गोत्राणि, सद्वेद्यं चेति चेन्मतम् / / सम्यक्त्वादि तथैवास्तु, प्रसादनमिहात्मनः // 3 // पुण्यं प्रीतिकरं सा च, सम्यक्त्वादिषु पुष्कला। मोहत्वं तु भवानन्ध-कारणादुपदर्शितम् // 4 // मोहो रागः स च स्नेहो, मोहो रागः स चाईति / रागस्यास्य प्रशस्तत्वान्-मोहत्वेन न मोहता // 5 // इति श्रीमदहत्प्रवचने तत्त्वार्थाधिगमे भाष्यानुसारिण्यां तस्वार्थटीकायां बन्धस्वरूपनिरूपकोऽष्टमोऽध्यायः // 8 // (अन्याय 1260 अष्टमाध्यायस्य, समग्रतस्तु 18779) 'घातिमता (1) इत्यपि पाठः।