________________ 178 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 8 टी०-सवेद्यमिति / तत्र सद्वेद्यं सुखरूपेणानुभवनीयम् / तदुपादानहेतवः प्रागुक्ताः / कारणानुरूपं कार्य भवतीति स्मरयति—“भूतव्रत्यनुकम्पा दानं सरागसंयमादि योगः शान्तिः शौचमिति सद्वेद्यस्य" (अ० 6, सू० 13) / सम्यक्त्ववेदनीयं तत्वार्थश्रद्धानाकारेणानुभवनीयम्, तदपि केवलिश्रुतसङ्घधर्मदेवानां वर्णवादादिहेतुकम् / वर्णःकीर्तिः, यशः सद्भूतगुणोद्भावनं भक्तिः पूजा पर्युपासनम् आदिग्रहणात, ते हेतवो यस्य तत् तद्धेतुकम् / हास्यवेदनीयं हास्याकारेणैवानुभवनीयम् / एवं रतिवेदनीयं च रत्याकारण, पुरुषवेदनीयं पुरुषाकारेणेति / शुभायुर्नामगोत्राणीति / शुभशब्दः प्रत्येकमभिसम्बध्यते / तत्र शुभायुष्कं मानुषं दैवं च भाष्यकाराभिप्रायः / कर्मप्रकृतिग्रन्थानुसारिणस्तु तिर्यगायुरपि शुभमाचक्षते / यदि च तत् तथा चशब्देनानुकृष्यते / शुभनाम गतिनामादीनां मध्यादुद्धर्तव्यं सप्तत्रिंशत्प्रकारम् / शुभं गोत्रमाचष्टे / उच्चैर्गोत्रमित्यर्थः / एवमेतदुच्चर्गोत्रान्तं सद्वद्यादि कर्माष्टविधं पुण्यसंज्ञितं, अर्थाल्लभ्यं व्युदसनीयं पापमिति / कर्मप्रकृतिग्रन्थानुसारिणस्तु द्वाचत्वारिंशत्प्रकृतीः पुण्याः कथयन्ति-सद्वेद्यं (1), तिर्यड्-मनुष्यदेवायूंषि (3), मनुष्य-देवगती (2) पञ्चेन्द्रियजातिः (1), शरीराणि पश्च (5), समचतुरस्रसंस्थान (1), वज्रर्षभनाराचसंहननं (1), अङ्गोपाङ्गत्रयं (3), प्रशस्तवर्ण-गन्ध-रस-स्पर्शाः (4), मनुष्यदेवानुपूयों (2), अगुरुलघु-पराघात-उच्छास-आतप-उद्द्योत प्रशस्तविहायोगति-त्रस-बादर-प र्याप्तप्रत्येक स्थिर-शुभ-सुभग सुस्वर-आदेय-यशःकीर्ति( 16 )पर्यवसानाः मतान्तरम्, तत्समा शुभाः निर्माण-तीर्थकर-उच्चैर्गोत्रैः (3) सहेति ॥आसां च मध्ये सम्यक्स्वधानस्याशक्यत्वम् हास्यरति पुरुषवेदा न सन्त्येवेति / कोऽभिप्रायो भाष्यकृतः को वा कर्म प्रकृतिग्रन्थप्रणायिनामिति सम्प्रदायविच्छेदान्मया तावन्न व्यज्ञायीति, चतुर्दशपूर्वधरादयस्तु संविद्रते यथावदिति निर्दोष व्याख्यातम् / द्वयधिकाशीतिरपुण्यकृतीनाम् / तद्यथापञ्च ज्ञानावरणानि नव दर्शनावरणानि असद्वेद्यं मिथ्यात्वं षोडश कषायाः नव नोकषायाः नारकायुः नरक-तिर्यग्गती एक-द्वि-त्रि-चतुरिन्द्रियजातयः, आद्यवर्जानि संस्थानानि पञ्च संहननानि पञ्चैव अप्रशस्तवर्ण-गन्ध-रस स्पर्शाः नारकतिर्यग्गत्यानुपूव्यौ उपघा. 82 पाप - तनाम अप्रशस्तविहायोगतिः स्थावर-सूक्ष्मा-ऽपर्याप्तक-साधारणा-स्थिरा-ऽशुभ दुर्भग-दुःस्वरा-ऽनादेया-यशःकीर्तय इति, तथा नीचैर्गोत्रं पञ्चविधमन्तरायमिति / सम्यक्त्वादिषुभयथा दर्शनात् संशेते मनः। सातं तियेग-नृ-सुरा-यूंषि शरीराणि पश्च मनुजगतिः / देवगतिः पञ्चेन्द्रियताऽङ्गोपाङ्गानि सर्वाणि // 1 // वज्रर्षभनाराचं समचतुरस्रं च तीर्थकरनाम / स्पर्श-रस गन्ध-वर्ण-विहायोगतयः प्रशस्ताश्च // 2 // प्रकृतयः १.श्रुतसंयमदेवानुवर्ण' इति च-पाठः / 2 ' यशोऽकीर्तयः' इति घ-पाठः /