________________ सूत्र 26 ] .. स्वोपज्ञभाष्य-टीकालङ्कृतम् 177 सर्वप्रकृतयो-ज्ञानावरणादिकास्तत्स्वरूपाः पुद्गलाः सर्वप्रकृतिपुद्गलाः / सर्वात्मप्रदेशेषु बध्यन्त इति / पुनरेकैकस्य कर्मणो ज्ञानावरणादेर्योग्याः पुद्गलाः कियन्तः एकैकस्मिन्नात्मप्रदेशे बध्यन्त इति स्पष्टं विवृणोति - एकैको हीत्यादि / असङ्ख्येयप्रदेशात्मनो जीवस्य एकैकः प्रदेशोऽनन्तैर्ज्ञानावरणकर्मस्कन्धैर्वद्धः। एवं दर्शनावरणादिकर्मप्रदेशैरिति / प्रदेशशब्दः स्कन्धवचनः, प्रकृष्टा देशा बहवो यत्र स्कन्धेन्धिति निर्वचनात् / अष्टमप्रश्ननिर्भदायाहभा-अनन्तानन्तप्रदेशाः कर्मग्रहणयोग्याः पुद्गला वध्यन्ते / टी०-अनन्तानन्तप्रदेशा इति / अनन्ते राशौ भूयोऽनन्तपुद्गलप्रक्षेपांदनन्तानन्त इति व्यपदेशः / ते चात्मन एकैकस्मिन् प्रदेशे ज्ञानावरणादिपुद्गला अनन्तानन्तप्रदेशाः स्कन्धाः कर्मवर्गणायोग्या वध्यन्ते, श्लेपमुपयान्तीत्यर्थः / अयोग्यास्तु न बध्यन्त इति / ततातिपादनायाह भा०-न तु सख्येयासङ्ख्येयानन्तप्रदेशाः कुतः 1 अग्रहणयोग्यत्वात् प्रदेशानामिति / एष प्रदेशबन्धो भवति // 25 // टी०-न तु सङ्ख्येयासङ्ख्येयानन्तप्रदेशा इति। नैव सङ्ख्येयादिप्रदेशा बध्यन्त इति / कुत एतदित्याह-अग्रहणयोग्यत्वात् प्रदेशानामिति / प्रदेशानां-स्कन्धानामेवंविधानामग्रहणयोग्यत्वादिति / सम्प्रति उपसंहरति-एष प्रदेशबन्धो भवतीति / एतत् प्रदेशपन्धस्वरूपमित्यर्थः // 25 // ___ भा०-सर्व चैतदष्टविधं कर्म पुण्यं पापं च / तत्र... टी.-सर्व चैतदित्यादिसम्बन्धग्रन्थः / सर्वमिति सोत्तरप्रकृतिकमष्टप्रकार ज्ञानावरणाधन्तरायपर्यवसानं पौद्गलं कर्म द्विधा (वि)भज्यते-पुण्यं पापं च / शुभं कर्म पुण्यं, अशुभं पापमिति / तत्र द्विप्रकारे कर्मणि प्राशस्त्याच्छुभमेवाभिधीयते / तनिरूपणेन यच्छेषं तत् पापमित्यर्थाद् गम्यते, अतः सूत्रम्-सद्धेद्य-सम्यक्त्व-हास्य-राति-पुरुषवेद-शुभायु-नाम-गोत्राणि पुण्यम् // 8-26 // भा०-सदेचं भूतव्रत्यनुकम्पादिहेतुकं सम्यक्त्ववेदनीयं केवलिश्रुतादीनां वर्णवादादिहेतुकं हास्यवदनीयं रतिवेदनीयं पुरुषवेदनीयं शुभमायुष्कं मानुषं देवं च शुभनाम गतिनामादीनां शुभं गोत्रं उच्चैर्गोत्रमित्यर्थः / इत्येतदष्टविधं कर्म पुण्यम्, अतोऽन्यत् पापमिति // 26 // 1 स्पष्ट पृथक् ' इति हु-पाठः / 2 'पादनन्त इति' च-पाठः।