________________ 176 तत्वार्थाधिगमसूत्रम् [अध्यायः८ कायादिचेष्टा योगानां विशेषो-भेदः: तीव्रमन्दादिकः तस्माद् योगविशेषादतुल्यं बन्धनम् , एतदेवाह-कायवाड्मनःकर्मयोगाच्च बध्यन्त इति / कायस्य वाचः मनसश्च क्रिया-कर्म अनुष्ठानभाषणचिन्तनादिका तयाऽऽत्मनो योगः-सम्बन्धः। क्रियाक्रियावतोः कथञ्चिदनन्यत्वात् , तस्य क्रियायोगस्य विशेषस्तीवस्तीव्रतरस्तीव्रतम इत्येवं बन्धोऽपि प्रकृष्टादिमेदो मन्तव्यः / किंगुणाः के वेत्यत्राह भा०-सूक्ष्मा बध्यन्ते, न बादराः। टी-सूक्ष्मा वध्यन्ते, न बादरा इति / सूक्ष्मशब्दो ह्यापेक्षिकत्वाद् बहुभेदः, परमाणोरारभ्य यावदनन्तप्रदेशाः स्कन्धास्तावदप्यतिसूक्ष्मत्वान्न बन्ध्या भवन्ति / अनन्तानन्तप्रदेशवर्गणायामपि भूयोऽनन्तराशिंप्रदेशात् केचिद् ग्रहणयोग्याः केचिनेति अतः सूक्ष्मप्रहणम् / एवं क्रमेणौदारिक-वैक्रिया-ऽऽहारक-तैजस-भाषा-प्राणापान-मनोवर्गणाः समुल्लङ्घ्य कर्मवर्गणायोग्याः सूक्ष्मपरिणतिरूपा एव बध्यन्ते, न बादरपरिणतिभाज इति / एवं क्रमेण सूक्ष्मपरिणतिभाजः केचिदग्रहणयोग्याः केचिद ग्रहणयोग्याः, पुनरपि केचिदग्रहणयोग्या इति // पश्चमप्रश्नप्रतिवचनार्थमाहभा०-एकक्षेत्रावगाढा बध्यन्ते, न क्षेत्रान्तरावगाढाः / टी-एकक्षेत्रावगाढा इत्यादि / एकस्मिन्-अभिन्न क्षेत्रे जीवप्रदेशैः सह येऽवगाढा-आश्रितास्ते बध्यन्ते / यत्राकाशे जीवोऽवगाढस्तत्रैव ये कर्मयोग्याः पुद्गलास्त एव बध्यन्ते, न क्षेत्रान्तरावगाढाः। तत्र च वर्तमानास्ते रागादिस्नेहगुणयोगादात्मनि लगन्ति, न क्षेत्रान्तरावगाढास्तद्भावपरिणामाभावादना( न्या)श्रितानामिति / षष्ठप्रश्नोत्तरमाहभा०—स्थिताश्च बध्यन्ते, न गतिसमापन्नाः / टी-स्थिता इत्यादिना / स्थिता एव बध्यन्ते / चशब्दस्यावधारणार्थत्वात् सामगेलभ्यमर्थं दर्शयति-न गतिसमापन्ना इति / समाप्तिः प्राप्तिः गतिपरिणाम इत्यर्थः / गतिप्राप्तास्तु गच्छन्त्येव, परिणामविशेषामात्मनि श्लिष्यन्ते वेगित्वादिति / सप्तमप्रभेप्रतिभेदायाह भा०-सर्वात्मप्रदेशेषु सर्वप्रकृतिपुद्गलाः सर्वात्मप्रदेशेषु बध्यन्ते। एकको यात्मप्रदेशोऽनन्तैः कर्मप्रदेशैर्बद्धः / ___टी.-सर्वात्मप्रदेशेष्वित्यादि / सर्वे च ते आत्मप्रदेशाश्च सर्वात्मप्रदेशाः / आत्मप्रदेशाश्चासङ्ख्येयास्तेषु सर्वप्रकृतिपुद्गलाः सर्वात्मप्रदेशेषु बध्यन्त इति / सर्वाश्च ताः प्रकृतयध 1 कविशेषाञ्च ' इति ङ-पाठः / 2 'भूयोमपि भूयो०' इति च-पाठः / 3 ' प्रक्षेपात् ' इति ङ-पाठः / 4 'सह तत्र येऽवगाढाः' इति ङ--पाठः / 5 'प्रश्ननिभेदायाह ' इति ग-पाठः /