________________ सूत्र 25] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 175 टी--नामप्रत्यया इत्यादि भाष्यम् / संज्ञानामान्वर्थं सर्वकर्मणामुक्तं ज्ञानावरणाद्यतरायपर्यवसानं तस्य प्रत्ययाः-कारणानीति षष्ठीसमासः / न हि तानन्तरेण तदाख्योदयादिसम्भवो युक्तस्येवात्मनः संसारिणः प्रथमप्रश्नः / एवं द्वितीयविकल्पः किंप्रत्ययो वेति द्वितीयमेदाश्रयणेन भाष्यम्-नाम प्रत्यय एषां ते इमे नामप्रत्यया इति बहुव्रीहिः, अन्यपदार्थश्च, गतिजात्यादिभेदं नामकर्म / औदारिकशरीरादयो योगाः कर्मणो निमित्ततां प्रतिपद्यन्ते पारम्पर्येण गत्यादयोऽपीत्यतो नामकर्मकारणाः पुद्गला बध्यन्त इति / प्रत्ययशब्दस्य पर्यायशब्दाख्याना ख्यापनायाह-नामानिमित्ता इत्यादि / नाम निमित्तं-हेतुः-कारणमेषां ते इमे नामनिमित्तादयः / इतिशब्दः प्रकारवाची / अपरे नामप्रत्यया बन्धननाम व्याचक्षते / नामकर्मण उत्तरप्रकृतिः शरीरनामान्तर्गता बन्धननाम तत्प्रत्ययाः किल पुद्गला इति / तच्च गृहीतगृह्यमाणपुद्गलानामन्यशरीरपुद्गलैवा सम्बन्धो यस्य कर्मण उदयाद् भवति, काष्ठद्वयभेदैकथ्यकरणे जतुवदिति / अथवाऽयमर्थः-प्रत्याययतीति प्रत्ययः / नाम प्रत्ययः कर्मैपामिति नामप्रत्ययाः नाग्नैव प्रत्याय्यन्ते यादृशाः पुद्गलाः प्रदेशबन्धस्य कारणीभवन्ति / ज्ञानावरण पर्सनावरणमित्यादि नाम तेन नाम्ना स्वरूपमाख्यायते तेषाम्, ज्ञानावरणसमर्थाः पुद्गला येन बध्यन्ते दर्शनावरणसमर्थाश्चेत्येवमन्यत्रापि योज्यम् / ननु चैकाकारा एव पुद्गलाः समादीयन्ते न तु ज्ञानावरणादिविशिष्टाः केचिद बहिः सन्तीति ? उच्यते-सत्यमेतत् / वयं स्विंदमभिदध्महे ज्ञानावरणादिकानां सर्वासां मूलप्रकृतीनां कर्मभेदानां सामर्थ्येऽन्ये(ने ?)न योगानो कर्मवर्गणानां ग्रहणमाम्नायते / ततः सामान्यगृहीतानामध्यवसायविशेषात् पृथक्पृथए ज्ञानावरणादिभेदत्वेन परिणमयत्यात्मेति // ___भा०–सर्वतस्तिर्यगूर्वमधश्च यध्यन्ते / योगविशेषात् कायवाङ्मनाकर्मविशेषाच बध्यन्ते। टी.-सर्वत इति / सर्वासु दिक्षु आत्मावधिकासु.व्यवस्थितान् पुद्गलानादत्ते / सप्तम्यन्तात् तसिः / एतत् प्रतिपादयन्नाह-तिर्यगूर्ध्वमधश्च बध्यन्त इति / तिर्यगष्टौ काष्ठाः ऊर्ध्वमधश्चैकैकेति / अतः सर्वासु दिक्ष्ववस्थितान् स्कन्धान लाति, नैकदिक्प्रतिष्ठान , सर्व जीवप्रदेशैः सर्वजीवप्रदेशस्थानितियावत् // अपरे व्याचक्षते-सर्वत 'सर्वता'पदस्य ... इति / सर्वैरात्मप्रदेशैः कर्मपुद्गलान् गृह्णाति / तृतीयान्तात् तसिः। एते व्याख्याने मतभेदः / "" चात्मप्रदेशाः शरीरिणो जीवस्य केचिदूर्ध्व केचिच्चाधस्तादिति, न चास्ति पुनरुक्ततादोषः। सर्वात्मप्रदेशेष्वित्यत्रानन्तानन्तप्रदेशाभिसम्बन्धादिति / नापि सर्वेषां बन्धकानां सम्बन्धस्तुल्यः / कुतः 1 योगविशेषादित्याह / आत्मना युज्यत इति योगः 1 'प्रत्ययाविति' इति ग-पाठः / 2 'नामभेदं' इति ग-पाठः / 3 'प्रत्याख्यानायाह' इति ग-पाठः / 4 'यतो बध्यन्ते' इति ग-पाठः / 5 'मेतत्संदध्महे' इति ग-पाठः, च-पाठस्तु 'मपि संदध्महे'। 6 'सामा. म्येन' इति ग-पाठः। 7 'योग्यानां' इति च-पाठः /