SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ 174 तत्त्वायाधगमसूत्रम् [अध्यायः८ निर्जरा / आह च " तारीकरणं ताम्रस्य शोषणस्तेमने मृदः क्रमशः। आम्रपरिपाचनं वा काले तेषूपदृष्टान्ताः // 1 // " यथासङ्ख्यमेते सङ्क्रमस्थित्युदीरणासु योज्याः / अत्र सूत्रे चशब्दो हेत्वन्तरमपेक्षते / विपाकहेतुका निर्जरेत्येको हेतुः / अस्मादन्यो हेतुर्हेत्वन्तरम् / तत्प्रदर्शनायाह-तपसा निर्जरा चेति वक्ष्यते-नवमेऽध्यायेऽभिधास्यते संवराधिकारे ( तृतीयसूत्रे ) / तपसा द्वादशप्रकारेण संवरश्च भवति निर्जरा चेति / तपोऽपि निर्जराहेतुरतो निमित्तान्तरसमुच्चयार्थय शब्दः / इह चाष्टमे कर्मविरामणार्थ निर्जराग्रहणं, नवमे संवरार्थमिति // 24 // भा०-उक्तोऽनुभावबन्धः, प्रदेशबन्धं वक्ष्यामः // टी०-उक्तोऽनुभावबन्धः / प्रदेशबन्धं वक्ष्याम इति उत्तरसूत्रसम्बन्धग्रन्थः / बन्धचतुष्टयी प्रकृता / ततः तृतीयोऽनुभावबन्ध उक्तः प्रपश्चेन / सम्प्रति प्रदेशबन्धं वक्ष्याम इति प्रतिजानीते / तत्प्रतिपादनायाह सूत्रम्-नामप्रत्ययाः सर्वतो योगविशेषात् सूक्ष्मैकक्षेत्रावगाढस्थिताः सर्वात्मप्रदेशेषु अनन्तानन्तप्रदेशाः // 8-25 // टी०-नामप्रत्यया इति सूत्रम् / अत्राष्टौ प्रश्नाः कस्य प्रत्ययाः कारणीभूता, किंप्रत्ययां वा पुद्गला बध्यन्त (इति) एका प्रश्नः 1, जीवोऽपि तान् बनानः पुद्गलान् किमेकेन . दिक्प्रदेशेन बध्नाति, उत सर्वदिक्प्रदेशैरिति ग्रहणमात्रमत्र विवक्षितम् 2, प्रदेशबन्धविचारोऽष्टविधः 1. सोऽपि बन्धः किं सर्वजीवानां तुल्यः आहोस्वित् कुतश्चिनिमित्तादतुल्यः! 3, किंगुणाः केवलाः पुद्गला बन्धास्पदं भवन्ति 4, यत्र चाकाशदेशे व्यवस्थिताः पुद्गलास्तत्रैवावगाढा ये जीवप्रदेशाः किं तेषामेव पुद्गलानां तत्र बन्धः, आहोस्तिजीवप्रदेशावगाढगगनदेशव्यतिरिक्तप्रदेशवर्तिनोऽपि वध्यन्ते 15, किं वा स्थितिपरिणत बध्यन्ते, अथवा गतिपरिणताः 16, ते च किमात्मना सर्वप्रदेशेषु अथैकैकदिशे श्लिष्यन्ति 17, स्कन्धा वा किंसङ्ख्येयासङ्ख्येयानन्तप्रदेशा बध्यन्ते,उतानन्तानन्तप्रदेशा इति? 8 / एषामष्टानां प्रश्नानां क्रमेणाष्टाभिः सूत्रावयवैर्निराकाङ्क्षीकरणं-नामप्रत्ययाः 1 सर्वतः 2 योगविशोषात 3 सूक्ष्माः 4 एकक्षेत्रावगाढाः 5 स्थिताः 6 सर्वात्मप्रदेशेषु 7 अनन्तानन्तप्रदेशाः 8 इति // भा०-नामप्रत्ययाः पुद्गलाः 'बध्यन्ते / नाम प्रत्यय एषां ते इमे नामप्रत्ययाः / नामनिमित्ता नामहेतुका नामकारणा इत्यर्थः / 1 यन्नाह ' इति ग-पाठः / 2 'कारणभूताः' इति च-पाठः / 3 ‘गाढभाग' इति ग-पाठः। 4 'पठ्यन्ते' इति ग-पाटः /
SR No.004408
Book TitleTattvarthadhigam Sutra Part 02
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy