________________ सूत्रं 24 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 173 गीयते यस्योदयादुच्चैरयं पूज्य उग्रो भोज इक्ष्वाकुरिति तदुच्चैर्गोत्रम् / तथा यदुदयाद् दरिद्रः अप्रज्ञातो गर्हितचाण्डालादिस्तन्नीचैर्गोत्रम् / दानादीनां विघ्नमुदयाद् यस्य सोऽन्तराय इति / एनमेवार्थ भाष्येण प्रतिपादयतिभा०----सोऽनुभावो गतिनामादीनां यथा नाम विपच्यते // 23 // टी०-सोऽनुभाव इति / अनन्तरप्रस्तुतस्य विपाकस्य तच्छब्देन परामर्शः। अनुभावः कर्मणां सामर्थ्यम् / गतिनामादीनामिति यद् ग्रहणं तदशेषकर्माधारताप्रदर्शनार्थम् / ज्ञानावरणाद्युदयो भवति गतिजातिशरीरादिवृत्तेर्जीवस्य / अन्यथा त्वसम्भव एवेति / सप्तम्यर्थे षष्ठीं। गतिनामादीनां वा सर्वकर्मणां स विपाको भवति, यथा नाम विपच्यते-विपाकमुदयमासादयतीतियावत् // 23 // यदि विपाकोऽनुभावः प्रतिज्ञायते ततस्तत्कर्मानुभूतं सत् किमावरणवदवतिष्ठते, उत निःसारं सत् प्रच्यवते ? उच्यते-पीडानुग्रहावात्मनः प्रदायाभ्यवहृतौ दानादिविकारवन्निवर्तते अवस्थानहेत्वभावात् / अस्यार्थस्य प्रतिपादनाय सूत्रम्--- सूत्रम्-ततश्च निर्जरा // 8-24 // टी-ततश्चेति विरामार्थत्वात् पश्चमी / ततो विपाकात् कर्मणो विरमणं परिशटनं भवति // मा०-ततश्चानुभावाद कर्मनिर्जरा भवति / निर्जरा क्षयो वेदनेत्येनर्थान्तरम्, अन चशब्दो हेत्वन्तरमपेक्षते / तपसा निर्जरा चेति वक्ष्यते (अ० 9 मू० 3) // 24 // .. टी-ततश्चानुभावादित्यादि भाष्यम् / तस्मादनुभावाद् विपाकलक्षणात् कर्मणो ज्ञानावरणादेर्निर्जरा परिपतनमात्मप्रदेशेभ्यो भवति / निर्जराशब्दार्थमाचष्टे—निर्जरा क्षयो वेदनेति / निर्जरणं निर्जरा, हानिरित्यर्थः। क्षयो-विनाशः कर्मपरिणतेर्विगमः / वेदना रसानुभव आकर्मपरिणामफलपरिणामभोगपरिसमाप्तेः इति धारणा(?) शाटव्यपगमपातप्रच्युत्यादयो निर्जराशब्दार्थाः परिज्ञेयाः / सा च निर्जरा द्विविधा-विपाकजा अविपाकजा वा / विपाक उदयः / उदीरणा त्वविपाकः। तत्राद्या संसारोदधौ परिप्लवमानस्यात्मनः शुभाशुभस्य कर्मणो विपाककालप्राप्तस्य यथायथमुदयावलिकास्रोतसि पतितस्य फलोपभोगादुप जातस्थितिक्षये या निवृत्तिः सा विपाकजा निर्जरा / यत् पुनः कर्मानिर्जराद्वयस्य / प्राप्तविपाककालमापक्रमिकक्रियाविशेषसामर्थ्यादनुदीर्ण बलादुदीर्योदया वलिकामनुप्रवेश्य वेद्यते पनसतिन्दुकाम्रफलपाकवत् सा त्वविपाकजा १'भोग' इति ग-च-पाठः / 2 'दात्रादीनां' इति च-पाटः / 3 'अन्यथा' इति क-ग-पाठः / 4 'भवतीति' ते घ-पाटः / 5 'त्यर्थं' इति घ-पाटः / 6 'मनुप्रपद्यते' इति ग-पाटः / व्याख्या