________________ 172 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 8 यथासङ्ख्यममिसम्बन्धः कार्यः। " अनुभावांश्च विपर्यासयति तथैव प्रयोगतो जीवः / तीव्रान् वा मन्दान् वा स्वासु प्रकृतिष्वभिन्नासु // 4 // यद् यद् वा मन्दं संत्क्षारीक्रियते हरिद्रया चूर्णम् / वाताऽऽतपादिभिश्च क्षारं मन्दीक्रियेत यथा // 5 // तीवोऽनुभावयोगो भवति हि मिथ्यात्ववेदनीयस्य / सम्यक्त्वे त्वतिमन्दो मिश्रे मिश्रोऽनुभावश्च // 6 // " अत्र प्रतिज्ञातेऽर्थे युक्तिमाह-जात्यन्तरानुबन्धविपाकनिमित्तान्यजातीयकत्वादेव सक्रमो न विद्यते इति / जात्यन्तरस्यानुबन्धनमनुवर्तनं यः करोति पाकस्तस्य यनिमिर्च तदन्यजातीयकं भिन्नम् / तथाच दर्शनमोहनीयादीनामास्रवा भिन्ना एव पठिताः प्रवचन इति // भा०--अपवर्तनं तु सर्वासां प्रकृतीनां विद्यते / तदायुष्केण व्याख्यातम् (अ० 2, सू० 52 ) // 22 // टी--अपवर्तनं स्वित्यादि / सर्वासामेव प्रकृतीनां सम्भवत्यपवर्तनं / द्राधीयस्याः कर्मस्थितेरल्पीकरणमपवर्तनम् / सर्वासामेव प्रकृतीनां तत्, सम्भवत्यध्यवसाय विशेषात् / तव प्राग व्याख्यातमेवेति तत्प्रतिपादनायाह-तदायुष्केण व्याख्यातमिति / तदपवर्तनमायुककर्मणा द्वितीयेऽध्याये (५२तमे सूत्रे) व्याख्यातमिति // 22 // विपाकोऽनुभाव इति स्वरूपमात्रमाख्यातम् / सम्प्रति तु यथा विपच्यते कर्म तथा प्रतिपादयमाह सूत्रम् स यथानाम // 8-23 // टी--स विपाक उक्तलक्षणो यथानाम भवति / यथाशब्देन वीप्सावाचिनाएयीभावः / यद् यस्य नाम संज्ञान्तरं कर्मणस्तत् तथा नामानुरूपमेव विपच्यते, यस्मात् ज्ञानावरणादीनां सविकल्पानां प्रत्येकमन्वर्थनिर्देशः / ज्ञानमावियते येन तत् ज्ञानावरणम् / यद् विपच्यमानं ज्ञानाभावे विवतेत इति / इत्थं दर्शनावरणमपि / सामान्योपयोगोपरोध इतियावत् / सुखानुभवः सद्वद्यम् / दुःखानुभवोऽसद्वेद्यम् / तथा दर्शनमोहचारित्रमोहश्च / दर्शन तत्त्वार्थश्रद्धानलक्षणं चारित्रं मूलोत्तरगुणभेदं तन्मोहयतीति / आयुर्जीवनं-प्राणधारण यदुदयाद् भवति तदायुः / तांस्तान् गत्यादीन् भावान् प्रशस्तानप्रशस्तांश्च नामयति-प्रापयतीति नाम / यदुदयाद् गतिनामाघनुभवतीत्यर्थः / तथा प्रतिभेदमपि गति नामयतीति गतिनाम / एवं जातिनामाद्यपीति / गोत्रमिति / 'कै गै शब्दे' (पा० धा० 716-717) गोत्रं संशब्दन 1 'तीव्रमन्दान्' इति च-पाठः / 2 ' सत्कारी' इति ङ-पाठः /