________________ सूत्र 22 ] स्वोपत्रभाष्य-टीकालङ्कृतम् 171 सर्वासु सङ्क्रामतीति प्राप्तम् , अत आह-मूलप्रकृत्यभिन्नास्विति / मूलप्रकृतिभ्यः अभिभासु-अपृथग्भूतासु-मूलप्रकृतीरजहतीपु / यथा-मूलप्रकृतिरेका ज्ञानावरणमिति / उत्तरप्रकृतयः पश्च / तत्रैताः पश्चाप्यन्योन्यमेव सङ्क्रामन्ति, नान्यमूलप्रकृत्युत्तरप्रकृतिषु / एनमेवार्थ सावधा रेणं दर्शयति-न तुमूलप्रकृतिषु सङ्क्रमो विद्यत इति / तुशब्दोऽवएक्रमस्थानम् धारणार्थः / नैव मूलप्रकृतिषु सङ्क्रमोऽस्ति / नहि ज्ञानावरणं दर्शनावरणे सक्रामति, नापि दर्शनावरणं ज्ञानावरणे, इत्येवमन्यत्रापि योज्यम् / अमुमेवार्थ युक्तया प्रतिपादयबाह-बन्धविपाकनिमित्तान्यन्यजातीयानीति / भिन्नजातीयानीत्यर्थः / अन्यद् बन्धनिमित्तं ज्ञानावरणस्य तत् प्रदोषनिहवादि / अन्यदसद्वेदनीयादेर्दुःखशोकादि शानदर्शनावरणयोर्बन्धनिमित्तमभिन्नमपि सदाशयविशेपाद् भेदमुपाभुत एव / विशेषग्राहि ज्ञानावरणम् / दर्शनावरणं तु सामान्यमात्रग्राहि, सामान्योपयोगमेवान्तर्धत्ते / एवं बन्धनिमित्तभेदाद विपाकनिमित्तभेदाच्च भिन्नासु मूलप्रकृतिषु सङ्क्रमो नास्ति / पूर्व सर्वास्त्रित्युक्तं यत् तत् सम्प्रत्यपोद्यते भा०-उत्तरप्रकृतिषु च दर्शनचारित्रमोहनीययोः सम्यगमिथ्यात्ववेदनीयस्यायुष्कस्य च जात्यन्तरानुबन्धविपाकनिमित्तान्यजातीयकत्वादेव सङ्क्रमो न विद्यते॥ टी-उत्तरप्रकृतिष्वित्यादि / कासाश्चित् उत्तरप्रकृतीनामपि कासुचित प्रकृतिषु सङ्क्रमो नास्तीति दर्शयति / तत्र दर्शनमोहश्चत्वारोऽनन्तानुबन्धिनः क्रोधादयो मिथ्यात्वं सम्पम्मिथ्यात्वं सम्यक्त्वमिति / शेपश्चारित्रमोहोऽप्रत्याख्यानादिः। तत्र दर्शनमोहोन सङक्रासति चारित्रमोहे नापि चारित्रमोहो दर्शनमोहे इति / सम्यमिथ्यात्वस्यासत्यपि बन्धे सम्यक्त्वेऽस्ति सङ्क्रमः / सम्यक्त्वं तु सम्यग्मिथ्यात्वे न सङ्क्रमति / तथा सम्यक्त्वसम्यगमिथ्यात्वयोमिथ्यात्वं सङ्क्रामयति / आयुष्कस्य च नारक-तिर्यङ्-मनुष्य-देवभेदस्य परस्परं नास्ति सक्रम इति / उक्तं चात्र " मूलप्रकृत्यभिन्नाः सङ्क्रमयति गुणत उत्तराः कृतीः / नन्वात्माऽमृतत्वादध्यवसानप्रयोगेण // 1 // शिथिलयति दृढ बद्धं शिथिलं दृ(द्र)ढयति च कर्म ननु जीवः / उत्कृष्टाश्च जघन्याः स्थितीविपर्यासयति चापि // 2 // " सक्रमणस्थित्युदीरणात्रयस्य दृष्टान्तत्रयोपप्रदर्शनायाह " तारीकरणं ताम्रस्य शोषणस्तेमने मृदः क्रमशः। आम्रपरिपाचनं वा काले ते पदृष्टान्ताः॥३॥" 1 रणकं' इति ड-च-पाठः / 2 ‘न्तर्वर्तते' इति ङ-पाटः। 3 'सड्कम इति' इति क-ग-पाठः / 'प्रकृतयः' इति उ-पाठः / 5 'तेष्वेव' इति ङ-पाटः, ' तेवत्र' इति तु ग-पाठः /