________________ 170 तत्त्वार्थाधिगमसूत्रम् (अन्यायः 8 उच्यते। तद्वैविध्यं 'निरूपयति-तथा चान्यथा चेत्यर्थः। यथा येनाध्यवसायप्रकारेण याहगभाव बद्धं कर्म तत् तथा तेनैव प्रकारेण विपच्यते अन्यथा च, प्रकारान्तरेणापीत्यर्थः। अनुभावो विपाको रस इति पर्यायाः / स च तीव्रमन्दमध्यमावस्थाभेदः शुभश्चैककः / तत्र कदाचिच्छुभगप्यशुभरसतयाऽनुभूयते, अशुभं च शुभरसतयेति वैविध्यार्थः / तथा चाह __ " तासामेव विपाकनिवन्धो यो नामनिर्वचनभिन्नः।। स रसोऽनुभावसंज्ञस्तीबो मन्दोऽथ मध्यो वा // 1 // " तत्र चाष्टप्रकारे कर्मणि किश्चित् कर्म पुद्गलेष्वेव विपच्यते, तत्पुद्गलान् परिणमयति नानाप्रकारेण, किञ्चिद् भवविपाकि प्राप्तजन्मन आत्मनः शरीरवतो विपच्यते। अपरं तु क्षेत्रविपाकि, क्षेत्रान्तरे विषच्यत इत्यर्थः / अन्यजीवविपाकीति, जीव एव विपच्यते इति / एवं चतुर्घा विपच्यते / तथा चाह "संहननं संस्थानं वर्णस्पर्शरसगन्धनामानि / अङ्गोपाङ्गानि तथा शरीरनामानि सर्वाणि // 1 // केषाञ्चित् कर्मणां अगुरुलघुपराघातोपघातनामातपोद्योतनामानि / पुद्गलादिधु विपचनम् प्रत्येकशरीरस्थिरशुभनामानीतरः सार्धम् / / 2 // प्रकृतय एताः पुद्गलपाका भवपाकमुक्तमायुष्कम् / क्षेत्रफलमानुपूर्वी जीवविपाकाः प्रकृतयोऽन्याः॥३॥" कथं पुनरन्यथा बन्धोऽन्यथा विपाकरूपो रस इति प्रतिपादनायाह-जीवः कर्मवि. पाकमनुभवन्नित्यादि / स्थित्युत्पत्तिव्ययपरिणाम्यात्मा कर्मणो ज्ञानावरणादिकस्य विपाकं मुञ्जानो रसमनुभवन्-वेदयमानः प्रकृतीनां सङ्क्रमं करोति / स च सक्रमः कर्मप्रत्ययःकर्महेतुक एव, निनिमित्तो यः स्यादनाभोगो हि ज्ञानावरणोदयः / अनाभोगवीर्यपूर्वकर्मसइक्रमोऽभिसम्बध्यते। करोति क्रियते आभुजतः-अध्यवस्यतश्चेष्टाऽऽत्मनो या तदाभोगवीर्यमनाभुञ्जतोऽनध्यवस्यतः सामर्थ्य विशिष्टक्रियापरिणामः अनाभोगवीर्य तत्पूर्वकं तदद्वारकं कर्मसएक्रमं विधत्ते / स पुनः सक्रमः कासु प्रकृतिषु कासा वा प्रकृतीनामित्याह भा०-उत्तरप्रकृतिषु सर्वासुमूलप्रकृत्यभिन्नासु, न तुमूलप्रकृतिषु सक्र. मो विद्यते, बन्धविपाकनिमित्तान्यजातीयकत्वात् / टी०-उत्तरप्रकृतिष्वित्यादि / मूलप्रकृत्यपेक्षया उत्तरप्रकृत्यभिधानम् / अष्टौ मूलभकतयो ज्ञानावरणादिकाः / उत्तरप्रकृतयस्तु पञ्चभेदं ज्ञानावरणमित्यादिकाः / तत्रो. तरप्रकृतीनामेवोत्तरप्रकृतिपु सङ्क्रमः / सर्वास्वित्युत्सर्गः / कासाश्चिम भवतीत्यपीत्यर्थः / अपवदिष्यते चोपरिष्टात् / पञ्चप्रकारं ज्ञानावरणं चक्षुर्दर्शनावरणादिप्रकृतिष्वप्यविशेषण १.दर्शयति ' इति ग-पाठः / 2 'नानाऽऽ-' इति च-पाठः / 3 अपि वदिष्यते ' इति उ-पाठः /