________________ सूत्र 22 स्वोपज्ञभाष्य-टीकालङ्कृतम् न्यामासः,अबाधा अन्तर्मुहूर्तकालः / संज्वलनलोभस्यान्तर्मुहूर्तकाला स्थितिर्जघन्या, अाध प्यन्तर्मुहूर्त एव / पुवेदस्य जघन्या स्थितिरष्टौ वर्षाणि, अबाधा अन्तर्मुहूर्तकालः / हास्यरत्यरति : यशोकजुगुप्सास्त्रीनपुंसकवेदानां जघन्या स्थितिः सागरोपमभागौ द्वौ पल्योपमासङ्ख्येयभानन्यूनौ, अन्तर्मुहूर्तश्चाबाधा। देवनारकायुषां जघन्या स्थितिः दश वर्षसहस्राणि, अबाधा अन्तर्मुहूर्तफालः / तिर्यग्मनुष्यायुषां जघन्या स्थितिः क्षुल्लकभवग्रहणम्, अबाधा अन्तर्मुहूर्तकाल इति // एवमेतेषां ज्ञानदर्शनावरणमोहायुषां कर्मणां यत्रान्तर्मुहूर्तकाला स्थितिस्तत्रेदं सूत्रमुपतिष्ठते सूत्रम्-शेषाणामन्तर्मुहूर्तम् // 8--21 // भा०-वेदनीय-नाम-गोत्रप्रकृतिभ्यः शेषाणांज्ञानावरण-दर्शनावरण-मोहमीया-ऽऽयुष्का-ऽन्तरायप्रकृतीनामपरा स्थितिरन्तर्मुहूतं भवति / / 21 / / टी-वेदनीयत्यादि भाष्यं सुगममिति / भा०--उक्तः स्थितिबन्धः / अनुभाववन्धं वक्ष्यामः // टी०-सम्प्रत्यनुभावबन्धविवक्षया आह-उक्तः स्थितिबन्धः / अनुभावषन्ध वक्ष्याम इति प्रतिज्ञातं तनिस्तरणायाह सूत्रम्-विपाकोऽनुभावः // 8-22 // टी.-विपाकोऽनुभाव इति / विपचनं विपाकः-उदयावलिकाप्रवेशः। कर्मणां विशिष्टो नानाप्रकारो वा पाको विपाकः-अप्रशस्तपरिणामानां तीव्रः, शुभपरिणामानां मन्दः। यथोक्तकर्मविशेषानुभवनं अनुभावः "कृत्यल्युटो बहुलं" (पा० अ० 3, पा० 3, सू० 113) इति वचनात् / अथवाऽऽत्मनाऽनुभूयते येन करणभूतेन बन्धेन सोऽनुभावबन्धः / “करणाधिकरणयोश्च" (पा० अ०३, पा० 3, सू० 117) इति पञ् / अनुशब्दस्य समुदायार्थ प्रदर्शनम् / अनुगतो वा भावोऽनुभाव इति प्रादिसमासः क्रियालोपी। सर्वासां हि प्रकृतीनां फलं विपाकोदयानुभावबन्धाज्जीवस्यानुसमयं कर्मानुभवनमिच्छानिच्छापूर्वकम्। तद्यथा-ज्ञानावरणस्य फलं ज्ञानाभावः दर्शनावरणस्यापि फलं दर्शनशक्त्युपरोध इति / एवं सर्वकर्मणां स्वकार्यबन्धोऽनुभूतिरिति / भा०---सर्वासां प्रकृतीनां फलं विपाकोदयोऽनुभावो भवतीति। विविधः पाको विपाकः, स तथा चान्यथा चेत्यर्थः / जीवः कर्मविपाकमनुभवन् कर्मप्रत्ययमेषानाभोगवीर्यपूर्वकं कर्मसङ्क्रमं करोति / टी.-सर्वासां प्रकृतीनामित्यादि भाष्यम् / सर्वासामिति का ग्रहणम् / कर्मपन्धस्य फलं विपाकः तस्योदयोऽनुभाव इति पर्यायकथनेन व्याख्या भवति / वेद्यते अवश्यंभावी विपाकः सर्वस्य कर्मणः। विशब्दार्थमाचष्टे-विविधो-जानाप्रकारः पाको विपाक 1 अनुभागबन्ध ' इति ग पाठः। 2 'बन्धनं ' इति ग-पाठः। 3 भवति ' इति घ-पाठः। 22