________________ कालः 166 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 8 ___भा०-आदितस्तिमृणां कर्मप्रकृतीनां ज्ञानावरण-दर्शनावरण-वेद्यानाम् अन्तरायप्रकृतेश्च त्रिंशत् सागरोपमकोटीकोव्यः परा स्थितिः // 15 // टी-ज्ञानदर्शनावरणवेद्यानामन्तरायकर्मणश्चैषा स्थितिः-अवस्थानं बन्धकाशानावरणीयादि- लात् प्रभृति यावदशेषं निर्जीणमित्येप स्थितिकालः / एवमासां चतसणां प्रकृतीनामबाधा- मूलप्रकृतीनां उत्कृष्टः स्थितिबन्ध उक्तः। वर्षसहस्रत्रितयं चाबाधा कालः / बाधाकालस्तु यत्प्रभृति ज्ञानावरणादिकर्म उदयावलिकाप्रविष्टं यावच्च निःशेषमुपक्षीणं तावद् भवति, तच्चोदयावलिकां प्रविशति बन्धकालादारभ्य त्रिषु वर्षसहस्रेष्वतीतेषु, स खल्यबाधाकालो यतस्तत् कमें नानुभूयते तावन्तं कालमिति // 15 // अथ मोहनीयकर्मप्रकृतेः कियान् स्थितिबन्ध इति तदभिधानायाह-- सूत्रम्-सप्ततिर्मोहनीयस्य // 8-16 // भा०-मोहनीयस्य कर्मप्रकृतेः सप्ततिसागरोपमकोटीकोट्यः परा स्थितिः // 16 // ___टी०-सप्ततिर्मोहनीयस्येति / सागरोपमकोटीकोट्य इत्यनुवर्तते / ताः सप्ततिसंख्ययो सम्बध्यन्ते / मोहनीयेत्यादिना एतदेव स्पष्टतरं विवृणोति, प्रतिपादितार्थ चैतद् भाष्यमिति / अस्यास्त्वबाधाकालः सप्त वर्षसहस्राणि / ततःपरं बाधाकालो यावदशेष श्रीणमिति // 16 // नामगोत्रमूलप्रकृत्योः स्थितिप्रतिपादनायाह सूत्रम्-नामगोत्रयोविंशतिः // 8-17 // भा०-नामगोत्रप्रकृत्योविंशतिः सागरोपमकोटीकोट्यः परा स्थितिः॥१७॥ टी०-नामकर्मणो गोत्रकर्मणश्चविंशतिः सागरोपमकोटीकोट्यः परा स्थितिरिति / नामगोत्रेत्यादिना भाष्येण स्पष्टीकृत एषोऽर्थः / अस्याप्यत्राधाकालो वर्षसहस्रद्वयमिति // 17 // आयुष्कोत्कृष्टस्थितिप्रतिपादनायाह सूत्रम्-त्रयस्त्रिंशत् सागरोपमाण्यायुष्कस्य // 8-10 // भा०-आयुष्कप्रकृतेस्त्रयस्त्रिंशत् सागरोपमाणि परा स्थितिः // 18 // टी-त्रयस्त्रिंशदित्यादि / त्रयस्त्रिंशत् सागरोपमाणि पूर्वकोटित्रिभागाभ्यधिकानि / प्रयस्त्रिंशद्वचनात्.कोटीकोट्य इति निवृत्तम् / पूर्वकोटित्रिभागश्वाबाधाकालः। आयुष्कप्रकृते. रित्यादि-भाष्यं सुज्ञानमेव // 18 // १'एवमेतासां' इति चं-पाठः। २०यकर्म.' इति घ-पाठः / 3 'याऽभिसम्ब० ' इति ग-पाठः।