________________ सूत्रं 19 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् मूलप्रकृतीनामुक्तः सामान्येन स्थितिबन्ध उत्कृष्टः / सम्प्रत्युत्तरप्रकृतीनां प्रत्येकमु स्कृष्टो जघन्यश्चोच्यते सूत्रक्रमाश्रयणेन / तत्रासद्वेद्यप्रकृतेत्रिंशत सागरो. सातासातयाः पमकोटीकोट्यः स्थितिः परा, जघन्या सागरोपमस्य सप्तभागावः परापरी बन्धी पल्योपमस्यासङ्ख्येयभागेन न्यूनाः, सद्वेद्यस्य पञ्चदश सागरोपमोती ___ कोट्य उत्कृष्टा स्थितिः, पञ्चदशवर्षशतान्यबाधा, जघन्या द्वादशमुहूर्ता, अबाधाऽन्तर्मुहूर्तम् / अत्रैतत्मूत्र माहसूत्रम्-अपरा द्वादशमुहूर्ता वेदनीयस्य // 8-19 // भा०-वेदनीयप्रकृतेरपरा द्वादशमुहूर्ता स्थितिरिति // 19 // .. टी०-वेदनीयमकृतरित्यादिभाष्यन् / अपरेत्युत्कृष्टापेक्षया जघन्योसूत्रपाठभेदः 1 च्यते / अपरा जघन्येत्यर्थः / कथं मध्यमा नेति चेत् व्याख्याविशेपाददोषः / अधरेति या धूत्रपाठः / अपरेति(?) स्पष्टमेव सूत्रमधीयते-जघन्या द्वादशमुहूर्तेति // 19 // सम्प्रति नामगोत्रयोरुत्तरप्रकृतीनां स्थितिरुच्यते / तत्र नामप्रकृतीनां तावत् मनुष्यगतिमनुष्यगत्यानुपूर्दोरुत्कृष्टः स्थितिवन्धः पञ्चदश सागरोपमकोटीकोट्यः पञ्चदशवर्षशतान्यबाधा, नरकगतिः तिर्यग्गतिरेकेन्द्रिया जातिः पञ्चेन्द्रियजातिः औदारिक-वैक्रिय-तैजसकार्मणशरीराणि हुण्डसंस्थानं औदारिकाङ्गोपाङ्गं वैक्रियाङ्गोपाङ्गं च वनसंहननं वर्णगन्धरसस्पर्शनरकानुपूर्वीतिर्यगानुपूर्वीभगुरुलघूपघातपराघातोच्छासातपोद्योताप्रशस्त विहायोगतित्रस _ स्थावरवादरपर्याप्तप्रत्येकशरीरास्थिरासुभगदुर्भगदुःस्वरानादेयायशःकीनामकर्मोत्तरप्रक- तिनिर्माणनाम्नामुत्कृष्टस्थितिबन्धो विंशतिः सागरोपमकोटीकोट्यः तीनामुत्कृष्टा सिरियाधाच वर्षसहस्रद्वयमबाधा / देवगतिर्देवगत्यानुपूर्वी समचतुरस्रसंस्थानं वज्रर्ष भनाराचसंहननं प्रशस्तविहायोगतिस्थिरशुभसुभगसुस्वरादेययशःकीतीनां दश सागरोपमकोटीकोट्यः परा स्थितिः दश वर्षशतान्यबाधा / न्यग्रोधसंस्थानवज्रनाराचसंहननयोादशसागरोपमकोटीकोट्यः परा स्थितिः द्वादश वर्षशतान्यबाधा / साचिसंस्थाननाराचसंहननयोश्चतुर्दशसागरोपमकोटीकोट्य उत्कृष्टा स्थितिः, चतुर्दश वर्षशतान्यबाधा / कुन्जसंस्थानार्धनाराचसंहननयोरुत्कृष्टा स्थितिः पोडश सागरोपमकोटीकोट्यः षोडश वर्षशतान्यबाधा / वामनसंस्थानकीलिकासंहननद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातीनां सूक्ष्मापपर्याप्तसाधारणनाम्नां चोत्कृष्टा स्थितिरष्टादश सागरोपमकोटीकोट्यः, अष्टादश वर्षशतान्यबाधा, आहारकशरीर एतदङ्गोपाङ्गतीर्थकरनाम्नामुत्कृष्टा स्थितिः सानरोपमकोटीकोटेरन्तः अबाधा 1 'श्रयणात् इति ग-पाठः / २'रुक्त' इति ङ-पाठः / 3 स्थितिबाधा' इति च-पाठः। 4 द्वादश' इति च-पाठः /